पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 116, कुल 1267 में से
संदर्भ में पढ़ें‘ आत्मन्येवात्मानं पश्येत्’ ( बृ. ६-४-२३. ) ‘विज्ञाय प्रज्ञां कुर्वीत ’ ( बृ. ६-४-२१. ) इत्यादिवचनैरीक्षणी यत्वाद्वाच्यमेव । ( ६ ) औपनिषदत्वान्नावचनेनेक्षणम् । न ‘ परात्परं ’ उत्तमादुत्तमं ‘पुरिशयं’ सकलदेहान्तर्गतं ‘पुरुषं ’ पूर्णं वासुदेवं परमात्मानं ‘ ईक्षते ’ जानातीत्यर्थः । यद्यपि षट्प्रश्नटीकायां “जीवघनाद्विरिञ्चात्तदुपासनयेति यावत्, ईक्षते पुनरभिबुद्धज्ञानो भ वति । ईक्षित्वाच तं प्राप्नोति ” इत्युक्तेरीक्षतेरपरोक्षज्ञानार्थत्वं प्रतीय ते । तथाऽपि मूले ज्ञानसामान्यविषयत्वरूपेक्षणीयत्वहेतोरसिद्धिपरि हाराय अस्याः श्रुतेरुपन्यस्तत्वात् “ हिरण्यगर्भोपदेशेन ” इति टी कोक्तेश्चेह प्रकृतानुगुण्यादीक्षतिः परोक्षज्ञानार्थो व्याख्येयः । ‘ आत्म नि ’ इत्यपरं काण्ववाक्यं जिज्ञासा नये व्याकृतम् । ‘विज्ञाय ’ इत्य न्यद्वाजसनेयवाक्यम् । ‘ब्राह्मणो ’ ब्रह्मनिष्ठो धीरः ‘तं ’ परमात्मानमे वं शास्त्रेणाचार्याद्वा ‘विज्ञाय ’ परोक्षतो ज्ञात्वा ‘प्रज्ञां ’ प्रकृष्टमपरोक्ष ज्ञानं ‘कुर्वीत’ सम्पादयेदित्यर्थः । इत्यादीति । एवमादिवाक्यैरित्यर्थः । आदिशब्देन “ आत्मा वा अरे द्रष्टव्यः ” ( बृ. उ. २-४-५. ) “ अज आत्मा महान् ध्रुवः” ( बृ. उ. ४-४-२०. ) “ तमेव धीरो विज्ञाय ” (बृ. उ. ४-४-२१. ) इत्यादिकं गृह्यते । ईक्षणीयत्वात् । अवगमोपलक्ष कमेतत् । अन्यथाऽनन्वयात् । अनेनासिद्धिः परिहृता । तदन्यथाऽनुपप त्तेरिति शेषः । वाच्यमेवेति सौत्रनञ्द्वयलब्धार्थोक्तिः । न त्ववाच्यं नापि लक्ष्यमिति एवशब्दार्थः । तादर्थ्येनास्यान्वयः । आनन्तर्यसूचनाय सूत्रभाष्ययोः प्रतिज्ञाहेत्वोर्व्युत्क्रमेणोक्तः ॥ ( ६ ) नन्वस्त्वीक्षणीयत्वं ब्रह्मणः, तथाऽपि न तदन्यथाऽनुपपत्त्या तस्य वाच्यत्वं वाच्यं प्रत्यक्षादिनाऽपीक्षणीयत्वोपपत्तेरित्यत आह— औपनिषदत्वादिति ॥ तदित्येतद्विपरिणम्यानुवर्तते । तथा च ‘तस्य’ ब्र ह्मणः ‘औपनिषदत्वात्’ उपनिषदेकसमधिगम्यत्वात् ‘अवचनेन ’ वचनेतरप्रमाणेन ‘ईक्षणं’ ज्ञानं नेत्यर्थः । तथा च श्रुतिस्मृतिसाहाय्य रहितप्रत्यक्षाद्यवेद्यत्वविशिष्टेक्षणीयत्वान्यथाऽनुपपत्या ब्रह्मणो वा च्यत्वं सिद्ध्यत्येवेति भावः । परिशेषप्रमाणपरतया वा इदमावृत्य व्या ख्येयम् । योजना तु—ब्रह्मणश्श्रुतिषूक्तं ईक्षणं प्रमाणेनैव हि भवेत् । प्र