पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 1162, कुल 1267 में से
संदर्भ में पढ़ें॥ प्रथमः परिशिष्टः ॥ ───:✤:─── ॥ ब्रह्मसूत्राणां भगवता मध्वाचार्येण कृतात् भाष्यात् ॥ ॥ प्रतीयमानः सिद्धान्तः ॥ ───:✤:─── ( १ ) प्र ॥ जगत्कारणं किम् ? उ ॥ विष्णुः, स एव परं ब्रह्म ॥ १-१-२. ( २ ) प्र ॥ विष्णुरिति कथं ज्ञातव्यम् ? उ ॥ शास्त्रात् ॥ १-१-३. ( ३ ) प्र ॥ कानि शास्त्राणि प्रमाणानि ? उ ॥ सर्वे वेदाः भारतं पञ्चरात्रं मूलरामायणं एतानि शा- स्त्राणि, तेषां अनुकूलानि इतरशास्त्राणि च प्रमाणा- नि, नेतराणि ॥ १-१-३. ( ४ ) प्र ॥ अन्यशास्त्राणि केन रचितानि, कस्मात् तान्यप्रमाणा- नि ? उ ॥ अयोग्यजीवानां मोहनार्थं विष्णोराज्ञया तानि शास्त्रा- णि रुद्रेण कृतानि कारितानि च ॥ १-१-१०. ( ५ ) प्र ॥ वेदे अनेकपरस्परविरोधाः सन्ति, एकत्र आकाशः ज- गत्कारणमिति उक्तं, अन्यत्र परमात्मेति । एकत्र पृथिवी वीस्वर्गाद्याधारः रुद्र इति, अन्यत्र विष्णुरिति उक्तम् । इत्यादिपरस्परविरोधाः बहवः सन्ति, एतादृशवेदः कथं प्रमाणमिति अङ्गीकर्तव्यः ? उ ॥ यद्यपि वेदे आपाततः परस्परं विरोधाः प्रतीयन्ते, त- थाऽपि पूर्वापरवाक्यपर्यालोचनया उपक्रमोपसंहारा- दिभिः विमर्शे कृते सति वेदे एकवाक्यता सिध्यति । युष्माभिः उक्ताः आकाशरुद्रादिशब्दाः विष्णुपराः ने- तरपराः, मुख्यवृत्त्या सर्वे शब्दाः परमात्मवाचकाः, य-