पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 127, कुल 1267 में से
संदर्भ में पढ़ें८० ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - १. ] न हि गौणात्मनि निर्दोषस्य लयः ॥ ९ ॥ ( २५ ) न च कासुचिच्छाखास्वन्यथोच्यते ॥ भाष्ये च चशब्दाभावः । यद्यप्यत्रोपलक्षणाभिप्रायकटीकारीत्या पूर्ण- त्वहेतुसमुच्चायकश्चशब्दोऽनुवर्तनीयः । तथाऽप्यस्य वाच्यत्वे साक्षा- दहेतुत्वात्तत्र हेत्वन्तरस्य ज्ञापकचशब्दो नानुवर्तनीयः । न च श्रुत्यु- क्तत्वाच्चेत्यध्याहृतहेतौ चशब्दावश्यंभावात् कथं तदभाव इति वा- च्यम्, सूत्रश्रुतहेतौ चशब्दाभाव इत्यभिप्रायात् । अत एव टीकायां तन्नेत्युक्तम् । तथा चायं सूत्रार्थः-न केवलं निर्गुणविष्ण्वाख्यं ब्रह्म ई- क्षणीयत्वाद्वाच्यम्, किन्त्वेतच्छ्रुत्युक्तत्वाच्च । श्रत्युक्तं निर्गुणमेव न गौ- णमिति कुतः? पूर्णत्वात्स्वस्य स्वस्मिन्नप्ययाच्च, गौणस्यापूर्णत्वान् अन्यस्मिन् लयेन स्वाप्ययशून्यत्वाच्चेति । श्रत्युक्तस्वाप्ययपूर्णत्वयोर सिद्धिपरिहाराय हेतौ साध्यसामानाधिकरण्योपपादनाय च श्रुति स्मृत्योर्वचनादित्युक्तं भाष्ये । नन्वयं स्वाप्ययवान् अन्यत्रालीनश्च गौ- णस्स्यात्, निर्गुणोऽन्योऽस्तीति चेत्-न, यद्ययं स्वाप्ययवान् गौणः त- र्ह्ययं निर्गुणश्चोभौ प्रलयेऽन्यत्र लयेहीनौ तिष्ठतः? उत एकस्मिन्नन्यस्य लयो भवति? नाद्यः “इदं वा अग्रे नैव किञ्च नासीत्” (तै.ब्रा.२-२- ९-१०) इत्यादिश्रुतिविरोधात्, अत्र प्रलये द्वितीयामात्रनिषेधात् । द्वि तीये न तावद्गौणस्य निर्गुणे लयः, तस्य स्वाप्ययवत्तया अवस्थानाभ्यु- पगमात् । तथा च निर्गुणस्य सगुणे लयो वाच्यः । स च न सम्भवती- त्याह—न हीति । ‘गौणात्मनि’ जीवे ‘निर्दोषस्य’ सत्त्वादिगुणबन्ध- रूपदोषहीनस्य निर्गुणस्य विष्णोर्लयो नोपपद्यत इत्यर्थः । हिशब्देन “यत्प्रयन्ति” (तै.उ.३-१०) इत्यादिश्रुतिविरोधादिति हेतुः सूचितः । तस्मान्निर्गुणस्य स्वस्मिन्नेव लयो वाच्य इत्यतोऽयमनन्यलीनो निर्गुण एवेति तस्यैव श्रत्युक्तत्वाद्वाच्यत्वं सिद्धमिति भावः । अत्र नये गौणा- दिव्यपदेशः सत्त्वादिगुणयुक्तत्वतदभावरूपधर्माश्रयजीवपरमात्मधि- षयक एव, न तु मुख्यासम्भवे गौणाश्रयणादित्यत्रेव निर्गुणोऽयमित्यत्रे व वा मुख्यार्थगुणहीनविषय इति सूचनाय निर्गुणस्येति वक्तव्यत्वे ऽपि निर्दोषस्येत्युक्तम् ॥ ( २५ ) नन्वस्तु निर्गुणस्य विष्णोर्वाच्यत्वोपपत्तौ सत्यां कारणत्वे न शास्त्रगम्यत्वम् । तच्चोपक्रमादिबलात् प्रसिद्धशाखास्वेव कारणत्वे