पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 13, कुल 1267 में से
संदर्भ में पढ़ें( १२ ) श्रीमद्ब्रह्मसूत्राधिकरणविषयसूचिका. अधि०। सूत्र०। विषयाः । समर्थनम् ॥ ४ १३-१७ श्रुत्युक्तचक्षुरन्तस्थत्वं परमात्मन एव नाग्नेरिति स मर्थनम् ॥ ५ १८-२० विष्णोः सर्वान्तर्यामित्वस्थापनम् ॥ ६ २१-२३ परमात्मनः अदृश्यत्वाद्यभावाख्यधर्मसमर्थनम् ॥ ७ २४-३२ वैश्वानरशब्दवाच्यः विष्णुरेवेति समर्थनम् ॥ —::— प्रथमाध्यायस्य तृतीयः पादः॥ १ १-७ पृथिवीस्वर्गाद्याधारत्वं विष्णोरेव न रुद्रादीनामिति समर्थनम् ॥ २ ८-९ श्रुत्युक्तभूमा विष्णुरेव न वायुरिति समर्थनम् ॥ ३ १०-१२ अक्षरशब्दवाच्यः परमात्मा न लक्ष्मीरिति समर्थनम्॥ ४ १३ सच्छब्दवाच्यः परमात्मा न प्रकृतिरिति समर्थनम् ॥ ५ १४-२१ हृत्पद्मस्थत्वं परमात्मनि एव वर्तते न आकाशे इति समर्थनम् ॥ ६ २२-२३ ज्ञानार्थं अपेक्षितत्वं परमात्मन एव न ज्ञानिसुखस्य इति समर्थनम् ॥ ७ २४-२५ काठके उक्त ईशानः परमात्मैव न वायुः तस्य अंगुष्ठ परिमितत्वं उपासनार्थं उक्तं इति समर्थनम् ॥ ८ २६-३३ देवानां वेदविद्याऽधिकारसमर्थनम् ॥ ९ ३४-३८ शूद्राणां वेदाधिकारो नास्तीति समर्थनम् ॥ १० ३९ श्रुत्युक्तवज्रशब्दः परमात्मवाची इति समर्थनम् ॥ ११ ४० श्रुत्युक्तज्योतिः परमात्मेति समर्थनम् ॥ १२ ४१ श्रुत्युक्ताकाशः परमात्मेति समर्थनम् ॥ १३ ४२ स्वप्नादिदर्शनम् परमात्मन एव इति समर्थनम् ॥ १४ ४३ श्रुत्युक्तब्राह्मणः परमात्मैव न विरिञ्चः इति समर्थनम्॥ —::— प्रथमाध्यायस्य चतुर्थः पादः॥ १ १-९ श्रुत्युक्तः अव्यक्तादिः परमात्मैव न प्रधानादिः इति समर्थनम् ॥