पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 135, कुल 1267 में से
संदर्भ में पढ़ें८८ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - १. ] सू—ॐ ॥ आनन्दमयोऽभ्यासात् ॥ ॐ ॥ १२ ॥ ( ४ ) आनन्दमयो ब्रह्मादिः प्रकृतिर्विष्णुर्वा । यादयः ते विष्णवभिन्नाः ये चानन्दमयादिजीवकोशावयवाः प्रियादय स्ते प्रतिशरीरं भिन्ना इति द्विविधा प्रियादय इत्युक्तं भवति । यथो क्तं चन्द्रिकायाम्—ये जीवाभिमन्यमानानन्दमयादिकोशावयवाः प्रि यादयस्ते प्रतिशरीरं भिन्नाः, न ते आनन्दमयाद्याख्यस्य विष्णोरवय वाः । ये च भगवतोऽवयवाः प्रियादयो न ते प्रतिशरीरं भिन्नाः कि न्त्वभिन्ना इति जीवस्वरूपस्यानन्दस्य हृदयाख्यमध्यगतत्वात्कोशम ध्यदेहत्वं स्वरूपदेहस्य जडावयवत्वं चामूख्यं युज्यते । यद्यपि भाष्ये ' शिरो नारायणः ' इत्युदाहरिष्यमाणवचनपर्यालोचनयाऽऽनन्दमया ख्यो नारायणः पुनर्नाrayana... wait, पुनर्नारायणादिरूपेण पञ्चधा भिन्नः शिरःप्रभृत्यवय वात्मना तिष्ठतीति प्रतीयते । तैत्तिरीयभाष्ये तु—प्रियादीनामानन्दम यावयवत्वम् । तथापि प्रियादिसुखविशेषदेहस्थितब्रह्माख्यप्रधानवा युगतानां नारायणादिरूपाणामेव आनन्दमयाख्यविष्ण्ववयवत्वसम्भ वात्तेषामेव । परेयं प्रियनामकम् । मोदप्रमोदनामानौ मोदनाच्च प्रमोदनात् । देहस्थवायुसंस्थं च ब्रह्म सृष्ट्या तु बृंहयेत् । इति तैत्तिरीयभाष्योक्तरीत्या प्रियादिशब्दवाच्यत्वस्यापि सम्भवान्न विरोधः । तत्त्वप्रदीपे तु-प्रियशिरस्त्वादिनये “श्रवणोत्थं प्रियं, दर्शनो त्थो मोदः, भोगोत्थः प्रमोदः ” इति पदत्रयस्यार्थान्तरमुक्तम् । तथा तत्रैव ' अभावं बादरिः ' इति सूत्रेण ' प्रियाप्रिये ' ( छां. ८-१२-१. ) इति श्रुतिस्थप्रियशब्देन ' परेयं प्रियनामकम् ' इति तैत्तिरीयच्छान्दो ग्यभाष्ययोरुक्तत्वात्परप्राप्यसुखसामान्यवाचकेन प्राकृतं सुखं ग्राह्य मिति सूचितम् ” इति चोक्तम् । इदं त्ववधेयं—परिदृश्यमानमन्नम यं शरीरम् । तदन्तः प्राणमयो देहः । तदन्तर्मनोमयो देहः । तदन्त र्विज्ञानमयो देहः । तदन्तरानन्दमयोऽस्ति । एतेषु पञ्चसु देहाख्यको शेषु तत्तच्छब्दवाच्यानि पुरुषाकाराणि अनिरुद्धप्रद्युम्नसङ्कर्षणवासुदे वनारायणरूपाणि देहदेहिभावेन वर्तन्त इति ॥ ( ४ ) एवं सङ्गतिं फलं चोक्त्वा विषयसंशयौ दर्शयति—आन न्दमय इति ॥ आनन्दमय इत्युपलक्षकपदेन विषयो दर्शितः । ब्रह्म