भारतकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 144, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 144

प्रकाशो रविरितिवत् ॥ ( १७ ) सू — ॐ ॥ तद्धेतुव्यपदेशाच्च ॥ ॐ ॥ १४ ॥ ‘ को ह्येवान्यात्कः प्राण्यात् । यदेष आकाश आन- न्दो न स्यात् ’ ( तै. २-७. ) इति । अन्नमयादयः पञ्चकोशा मिथो भिन्नाः तेषां ब्रह्मशब्दोक्तत्वेऽपि अब्रह्म- त्वम् । अन्त्यपुच्छस्यैव ब्रह्मत्वम् । अन्नमयाद्यतिक्रमो मोक्षः । वक्ष्यमा- णानां चक्षुश्श्रोत्रमनोवाचां नान्नमयादिष्वनुवृत्तिः । ‘ अन्नं ब्रह्मेति व्यजानात् ’ ( तै. उ. ३ - २. ) इत्यादौ पञ्चमस्यानिन्दस्य ब्रह्मत्वम् । ‘ एतमानन्दमयमात्मानमुपसङ्क्रम्य ’ ( तै. उ. ३- १०- ५. ) इत्येतस्मा- द्ब्रह्मानन्दमयाद्यतिक्रमनिर्गुणवाक्यात्पृथगेव ‘ इमान् लोकान् ’ ( तै. उ. ३-१०-५. ) इत्यादिको वाक्यशेषः सगुणवाक्यैकवाक्यतापन्नः तत्फलप्रतिपादक इत्यादिका युक्ता । उक्तहेतुभिरत्यन्तासङ्गतत्वात् इत्यन्त्यपक्षनिराकरणपरतया व्याख्यातम् । न चैवमेतद्विरोधष्टीकाया इति वाच्यम् । भाष्यकारः सविस्तरं विशिष्य न निराचख्याविति टीकाभिप्रायाभ्युपगमात् । ननु ‘ न ब्रह्मणि प्रचुरानन्दः ’ इत्यादिप्रयो- गो युज्यते । तस्यानन्दादिस्वरूपत्वात् ‘ घृतप्रचुर ओदनः ’ इत्यादौ भेदस्थल एव तथा प्रयोगादित्यत आह—स्वरूपे चेति । चशब्दोऽप्य- र्थः । इतिशब्दः शब्दपदार्थः । ‘ रविरितिवत् ’ इत्यनन्तरं ‘व्यवहारः’ इति शेषः । ‘ स्वरूपे च ’ इत्यस्यावृत्तिः । तथा च प्रकाशस्वरूपेऽपि सूर्यबिम्बे विशेषबलात् ‘प्रचुरप्रकाशो रविरितिवत्’ एवंरूपव्यवहारव- त् आनन्दादिस्वरूपेऽपिहरौ विशेषेण तथा व्यवहारो युज्यत एवेति न तदनुपपत्तिरित्यर्थः ॥ ( १७ ) आनन्दमयमात्रस्य विष्णुत्वे, हेत्वन्तररूपं प्राचुर्यमेव मय- डर्थ इत्यत्र च हेतुं प्रतिपादयत्सूत्रमुपन्यस्यति—तद्धेत्विति ॥ आन- न्दमय इति तत्त्विति चानुवर्तते । तदित्यस्यावृत्तिः । स चासौ हेतु- श्चेत्यपि विग्रहः । तथा च न केवलं ब्रह्मशब्दाभ्यासात् । किन्तु ‘तद्धेतु- व्यपदेशात् ’ तस्मिन्नानन्दमयप्रकरणे तस्य विष्णोः तस्मिन् आन- न्दपूर्णत्वेनानन्दमयत्वे प्राचुर्यस्यैव मयडर्थत्वे च तद्धेतुव्यपदे- शात् लोकचेष्टकत्वाख्यहेतुत्वेनानन्दपूर्णत्वेनैवानन्दमयशब्दवाच्यो विष्णुरेवेति सूत्रवृत्तिमभिप्रेत्य तमेव हेतुव्यपदेशं दर्शयति—को हीति । ‘ यत् ’ यदा यदि ‘ एषः आकाशः ’ आसमन्तात्प्रकाशमानो १३