पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 189, कुल 1267 में से
संदर्भ में पढ़ें१४२ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - १. ] कापेक्षया उभयस्मिन्नप्यविरोधात् ॥ १२. अधिकरणम् ॥ ( १ ) प्राणो विष्णुरित्युक्तम् । तत्र ' ता वा एताः शीर्षन् छ्रियः श्रिताश्चक्षुः श्रोत्रं मनो वाक्प्राणः' (ऐ. आ. २-१-४. ) इत्यत्र प्राणस्य विष्णुत्वं न युज्यते । इन्द्रि यैस्सहभिधानादिति । अत आह— इति प्रमाणविरोधापातात् । छान्दोग्यभाष्ये तु— अनन्तशयनं चैव तथाऽनन्तासनं हरेः । बहुलक्षोच्छ्रिते नित्ये विमाने संस्थितं यतः ॥ चित्रप्रकृत्यात्मनि ततो दिवीति कथितं श्रुतौ । इति प्रमाणबलेन चित्रप्रकृत्यात्मकानन्तासनश्वेतद्वीपवैकुण्ठाख्यस्थान त्रये सप्तम्यन्तो द्युशब्दो द्योतमानत्वनिमित्तेन यौगिकः, स्वर्गादौ तु रूढ इति उपदेशयोरविरोध इति प्रकारान्तरेण विरोधपरिहारः कृतः ॥ ११ ॥ ॥ इति छन्दोभिधानाधिकरणम् ॥ १२. अधिकरणम् ॥ ( १ ) अत्राधिकरणे लोकतोऽन्यत्र प्रसिद्धप्राणनाम्नो विष्णौ समन्व यः प्रतिपाद्यते । श्रुत्यादिसङ्गतिविषयवाक्यविषयसंशयसयुक्तिकपूर्व पक्षान् दर्शयति-प्राण इति। आद्यप्राणाधिकरणे 'तद्वै त्वम्' (तै.आ.३- १४.) इति वाक्योक्तप्राणो विष्णुरित्युक्तमित्यर्थः । ततः किमित्यत आह- तत्रेति । उक्तमित्यनुषज्यते । तस्यावृत्तिविपरिणामौ । एवं तत्रेत्यप्याव र्तनीयम् । तथा च 'तत्र' तद्वै त्वमिति वाक्ये उक्तस्य प्राणस्य विष्णुत्वं न विद्यते न युज्यते । कुतः ? यतस्तत्र 'तद्वै त्वम्' इति वाक्योक्तप्राण विषये 'उक्ते' श्रुते 'ता वा एताः' इत्यैतरेयवाक्ये उक्तस्य श्रुतस्य प्रा णस्य विष्णुत्वं न विद्यत इति योजना । कुतो न विद्यते इत्यत आह- इन्द्रियैस्सहभिधानादिति । इन्द्रियैस्सह पठितत्वात् इन्द्रियगणे ग णितत्वात् इत्यर्थः । अनेनैतरेयप्राणस्य विष्ण्वन्यत्वाक्षेपमुखेन प्राची नतैत्तिरीयोक्तप्राणस्याप्यन्यत्वाक्षेपात्तेनास्याक्षेपिकी सङ्गतिरुक्ता भ वति । ऐतरेयप्राणाख्यो विषयः । प्राणोऽन्य उत विष्णुरिति संशयश्च