पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 19, कुल 1267 में से
संदर्भ में पढ़ें( १८ ) श्रीमद्ब्रह्मसूत्राधिकरणविषयसूचिका. अधि०। सूत्र०। विषयाः। ५ ५ भूतानां जीवेन सह गमनविषये पूर्वपक्षपरिहारः ॥ ६ ६ भूतानां जीवेन सह गमनविषये प्रत्यक्षश्रुतिः नास्तीति पूर्वपक्षस्य परिहारः ॥ ७ ७ वैराग्यभक्त्युपासनज्ञानैरेव मोक्षः भवति कर्मणा जा- यमानो मोक्षः गौणः इति निरूपणम् ॥ ८ ८ कर्म अनुभवेन निःशेषं न नश्यति अतः वैराग्यादि साधनं आवश्यकमेव इति निरूपणम् ॥ ९ ९ जीवस्य स्वर्गादिकं प्रति येन पथा गमनं तथा नियमे- न आगमनं नेति निरूपणम् ॥ १० १०-१२ जीवस्य गमनागमनं कर्मणैव न आचारमात्रेण इति निरूपणम् ॥ ११ १३-१५ पापकर्मकृतामपि गमनागमनमस्तीति, केचिज्जीवाः नरके दुःखं अनुभूय ऊर्ध्वलोकं आरोहन्ति, अन्ये तमसि अवरोहन्ति इति निरूपणम् ॥ १२ १६ नरकाणि सप्तेति निरूपणम् ॥ १३ १७ परमात्मा जीवस्य अन्तःस्थित्वा प्रेरकोऽपि तस्य नर- कानुभवः नेति निरूपणम् ॥ १४ १८ देवयानपितृयानयोः गमने जीवानां स्वातन्त्र्यं नेति निरूपणम् ॥ १५ १९-२३ तमसि सुखलेशोऽपि नास्तीति निरूपणम् ॥ १६ २४ जीवः धूमादिदेवतादेहेषु प्रविश्य तस्य स्थितौ तिष्ठ- ति तद्गमने गच्छति न तु तद्रूपत्वं तत्पदं वा प्राप्नो- ति इति निरूपणम् ॥ १७ २५ जीवः पुण्यमनुभूय धूममार्गेण अविळम्बेन संवत्सरा- त्प्रागेव मातृदेहं प्रविशति इति निरूपणम् ॥ १८ २६-२७ कर्मिणां स्वर्गादवरोहणे दुःखानुभवः नास्तीति निरू- पणम् ॥ १९ २८ जीवः प्रथमतः पितृदेहं प्रविश्य अनन्तरं मातृयोनिं प्र- विशतीति निरूपणम् ॥ २० २९ योनिप्रवेशानन्तरं शरीरप्राप्तिः इत्येतत् सामान्यजन