पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 195, कुल 1267 में से
संदर्भ में पढ़ें१४८ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - १. ] ( ७) सू—ॐ ॥ शास्त्रदृष्ट्या तूपदेशो वामदेववत् ॥ ॐ ॥ ३० ॥ शास्त्रमन्तर्यामी । परमात्मनः सम्बन्धस्यावेशस्य भूमा बाहुल्यं विद्यते तस्मादुपदेशस्य सन्निहितपरमात्मविषयत्वोपपत्तेरिति भावः । तदपि कुतः ? हि य स्मात् अस्मिन् प्रकरणेऽध्यात्मसम्बन्धभूमोक्तः तस्मादिति सूत्रार्थ उ क्तो भवति ॥ (७) ननु यदि प्राणशब्देनेन्द्रेणापि विष्णुरेव स्वात्मादिसर्वगत तयोच्यते तर्हि मयि प्राण इति निर्देशः स्यात् । न त्वहमिति । विष्णा वहमित्यादिरूपोपदेशायोगादित्याशङ्कां परिहरत्सूत्रं पठति—शास्त्रे ति ॥ तुरेवार्थोऽप्यर्थः, यत इत्यर्थे स्मृतिसूचकश्च । युज्यत इति शे षः । तथा च यतोऽपि प्राणस्य विष्णुत्वेऽप्युपदेशः ‘प्राणो वाऽहम्’ इत्येवंरूपो युज्यते, अतो न तदनुपपत्तिः । कथमयं युज्यते ? यतोऽयमु पदेशः ‘शास्त्रदृष्ट्या’ शास्ति सर्वमिति शास्त्रं अन्तर्यामी भगवान्, तद्दृष्ट्या तदपेक्षयैव प्रवृत्तो न त्वैक्येन । न चान्तर्यामिणि अहमादिप्र योगादर्शनात् तद्योगः । यतो ‘वामदेववत्’ तत्कर्तृकप्रयोगवत् । य था वामदेवो नाम ऋषिः अन्तर्यामिविवक्षया ‘अहं मनुरभवम्’ इति स्वस्मिन् अहंमन्वादिशब्दान् प्रयुयुजे । तथा अयमप्युपदेशो युज्यते अत इति सूत्रयोजनामभिप्रयन् सौत्रशास्त्रपदं व्याचष्टे—शास्त्रमिति । विष्णुरिति शेषः । तथाचान्तर्यामी विष्णुरिह शास्त्रपदेनोक्त इत्यर्थः । अन्तर्यामीति प्रकृताभिप्रायेण । यद्वा—शास्ति प्रेरयति सर्वानिति व्यु त्पत्त्या अन्तर्यामीत्येतदेव शास्त्रमित्यस्य व्याख्यानं भवतीति नापदा र्थत्वशङ्कावकाशः । अतएव भागवते ध्येयेऽन्तर्यामिण्येव शास्त्रशब्दप्र योगः । ऐतरेयभाष्ये ‘शास्तुरन्तर्यामिणः’ इति शास्तृशब्दं मूलीकृ त्य व्याख्यानेऽपि, तदनुसारेण च तत्त्वप्रदीपे शास्तुरन्तर्यामिणो वि ष्णोरिति व्याख्यानेऽपि नास्य तद्विरोधः शङ्क्यः, यतस्तत्पर्यायशब्द व्याख्यानेनैव शास्त्रशब्दो व्याख्यातो भवतीत्याशयेन शास्त्रशब्दपर्या यशास्तृशब्दो व्याख्यायते । यद्वा—शास्त्रशब्दे शास्तृ अ इत्यवयववि भागमभिप्रेत्य शास्त्रिंशस्यान्तर्यामिण इत्यनेन अशब्दस्य विष्णोरि त्यनेन च व्याख्यातत्वात्, अत्र तु अवयवविभागमविवक्षित्वा शास्त्रमि त्यखण्डपदस्यान्तर्यामीति व्याख्यानातदनुकूलतया ‘संविच्छास्त्रम्’ इति वचनोपन्यासाञ्च न विरोधः ॥