पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 207, कुल 1267 में से
संदर्भ में पढ़ें१६० ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - २. ] 'स योऽतोऽश्रुतः' (ऐ. आ. ३-२-४.) इत्यादि । (८) स हि 'न ते विष्णो जायमानो न जातो देवः' (ऋ. त' (ऐ.आ.३-२-४.) इति वाक्यशेषो गृह्यते । इत्यादीति लुप्ततृतीया विभक्तिकं पदम् । अस्य विवक्षितेति सूत्रपदेनान्वयः । अत एव सूत्र भाष्ययोरेकीभाव इति तत्त्वप्रदीपोक्तिः । अनेन सूत्रे श्रुतेरिति शेषः सू चितः । चः पूर्वोक्तहेतुसमुच्चयेऽवधारणे च । यतो वक्तुं योग्ये विव क्षा भवति । अतो विवक्षिताः वक्तुं योग्याः वक्ष्यमाणा इति वा । ये तु श्रुतीनां ब्रह्मगुणेषु तात्पर्याभावं वदन्ति, तन्निरासाय विवक्षितपदमुप निबबन्ध सूत्रकृदिति तत्त्वप्रदीपोक्तेः श्रुतितात्पर्यविषयभूता इति वा । सर्वत्रेत्यनुवर्तते । गते इति शेषः । तथा च सर्वत्र गते विवक्षितानां श्रुत्या सर्वत्र गतनिष्ठतया वक्तुं योग्यानां इतःपरं श्रुत्या सर्वगतनिष्ठ तया वक्ष्यमाणानां श्रुतितात्पर्यविषयीभूतानां वा गुणानामुपसंहारग ताश्रुतत्वादीनां विष्णोरेव योग्यत्वेन तस्मिन्नेवोपपत्तेः अन्यत्रानुपपत्ते श्च सर्वत्रोच्यमानो नारायण एव इति सूत्रार्थ उक्तो भवति । यः प्रकृ तो विष्णुः सः 'अतः' देशकालगुणैर्व्याप्तः । अत सातत्यगमने इति धातुव्याख्यानात् 'सन्ततो ह्यत उच्यते' इति वचनाच्च । यद्वा-अतो तिस्तुतीयेतिशये अधिक इत्यर्थः । 'अश्रुतः' सर्वात्मना श्रोतुमश क्यः । स्वयमेव स्वात्मानं स्वातन्त्र्येण शृणोति । 'नर्ते त्वत्' (ऋ.१०- ११२-९.) इति श्रुतेः । 'अगतः' अप्राप्तः पूर्णत्वात्सर्वात्मनाऽज्ञात इति वा । सर्वात्मना मननविषयो न भवतीत्यमतः । 'अनतो' नेतृरहितः स्वत न्त्र इति यावत् । 'अदृष्टः' प्रत्यक्षेण केन चिन्न, सर्वात्मना पूर्णत्वात् । अत एव सर्वात्मना 'अविज्ञातः' विशेषतो न ज्ञातः । 'अनादिष्टः' नियोजकशून्योऽन्यैरनाज्ञप्त इति वा । यथाऽन्यैः स्वयमश्रुतादिर्न तथा न्ये, सर्वात्मना श्रुताद्या इत्याह—श्रोतेति । 'श्रोता' युगपत्स्वातन्त्र्ये ण श्रवणकर्ता । 'मन्ता' स्वातन्त्र्येण सर्वमननकर्ता । स्वातन्त्र्येण सर्वद्रष्टा । 'आदेष्टा' नियोजनकर्ता । 'आघोष्टा' सम्यग्वक्ता । 'विज्ञा ता' विशेषेण ज्ञाता । प्रकर्षेण ज्ञाता । 'सर्वेषां भूतानां' जीवानां 'अ न्तरः' अन्तस्थः 'पुरुषः' पूर्णः 'समः' समानः, सर्वरूपेण 'आत्मा' आदानादिकर्तेति विद्यादित्यैतरेयभाष्यतत्त्वप्रदीपविश्वेश्वरतीर्थीयदि शा श्रुत्यर्थः ॥ (८) नन्वेतच्छ्रुत्युक्तानां अश्रुतत्वादिगुणानां कुतो विष्णुनिष्ठत्व