पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 209, कुल 1267 में से
संदर्भ में पढ़ें१६२ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - २. ] ( ११ ) सू—ॐ ॥ अनुपपत्तेस्तु न शारीरः ॥ ॐ ॥ ३ ॥ एकस्य सर्वशरीरस्थत्वानुपपत्तेरेव ॥ ३ ॥ ( १२ ) सू—ॐ ॥ कर्मकर्तृव्यपदेशाच्च ॥ ॐ ॥ ४ ॥ ‘ आत्मानं परस्मै शंसति ’ ( ऐ. आ. ३ - २ - ३. ) इत्यादि ॥ ४ ॥ भिप्रायम् । जीवश्चेत्यपि चशब्दान्वयः । तेनादित्यप्रतिज्ञा समुच्ची- यते । सर्वत्र गत इति शेषः । इति न वाच्यमिति सम्बन्धः ॥ ( ११ ) कुतो न वाच्यमित्यत्र हेत्वाकांक्षायां सूत्रमुपन्यस्य प्रतिज्ञा- भागस्यावतारिकाभाष्येणैव व्याख्यातत्वाद्धेत्वंशमेव व्याचष्टे—अनुप- पत्तेरिति ॥ एकस्यैकैकस्य जीवस्येति विपरिणामेनानुवर्तते । सर्वश- रीरेति । सर्वशरीरस्थत्वस्यानुपपत्तेः सर्वजीवस्य समानभोगप्राप्तिरू- पोपपत्तिविरुद्धत्वादेवेत्यर्थः । न त्वन्यप्रापकाभावादिति हेत्वन्तरम- न्वेषणीयमित्येवशब्दार्थः । एवेत्यनेन सौत्रतुशब्दो व्याख्यातः । अनुप- पत्तिस्तु टीकायामेव सहेतुकमुपपादिता ॥ ( १२ ) युक्त्यन्तरेण शारीरस्य सर्वगतत्वं निराकुर्वत्सूत्रमुपन्यस्य तदुपात्तश्रुतिमेवोदाहरति—कर्मेति ॥ भावप्रधानोऽयं, चः समुच्चये । ‘सर्वत्रोक्तः शारीरः’ इति पदत्रयं विपरिणामेनानुवर्तते । तथा च सर्व- त्रोक्तस्य सर्वगतस्य प्रकृतस्य ‘एतमात्मानं परस्मै शंसति’ इत्यैतरे- यश्रुतौ शंसनक्रियायां स एतमात्मानमिति कर्मत्वेन शारीरस्य जीव- स्य च तस्यामेव कर्तृत्वेन व्यपदेशात् एकस्यां क्रियायां तयोरुत्सर्ग- तो भिन्नत्वनियमात् अपवादकारणाभावाच्च न सर्वत्रोच्यमानः शारी- र इत्यर्थः । तत्त्वप्रदीपे तु—चकारात् ‘परस्मै’ इति सम्प्रदानव्यपदे- शाच्चेत्यभिप्राय इत्युक्तम् । यः ‘एतमात्मानं’ चक्षुर्मयत्वादिगुणकं प- रमात्मानं ‘अन्यस्मै’ अयोग्याय ‘शंसति’ उपदिशति तस्य वेदाः ‘दुग्धदोहाः’ फलविधुरा भवन्तीत्यर्थः । इत्यादीत्यस्य पूर्ववत्सूत्रेणा- न्वयः । आदिपदेन ‘आत्मानं वेद’ इति टीकोक्तं ‘यस्तित्याज सखिवि- दं सखायं न तस्य वाच्यपि भागो अस्ति’ (ऐ.आ.३-२-४.) इति तत्त्व- प्रदीपोदाहृतवाक्यं च गृह्यते । ‘सखिविदं’ कर्मसञ्चयवेत्तारं प्रीत्या एकदेशस्थत्वात् सखायं हरिं ‘यस्तित्याज’ तत्याज अन्यथा वेद, तस्य ‘वाचि’ वेदाध्ययनादौ तस्मात् ‘भागः’ फलं नास्ति नरकं च स्यादित्यर्थः ॥