पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 215, कुल 1267 में से
संदर्भ में पढ़ें१६८ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - २. ] ( २२ ) सू—ॐ ॥ सम्भोगप्राप्तिरिति चेन्न वैशेष्यात् ॥ ॐ ॥ ८ ॥ जीवपरयोरेकशरीरस्थत्वे समानभोगप्राप्तिरिति चेत्—न, ( २३ ) सामर्थ्यवैशेष्यात् । ( २४ ) उक्तं च गारुडे— सर्वज्ञालपज्ञताभेदात्सर्वशक्त्यल्पशक्तितः । ( २२ ) पुनरुक्तमाक्षिप्य समादधत्सूत्रमुपन्यस्यति—सम्भोगेति ॥ अत्र पूर्वसूत्रादेवंशब्दमनुवर्त्य तद्बोधितमापादकं दर्शयन् पूर्वपक्षांशं तावद्व्याचष्टे—जीवेति । जीवपरमात्मनोरित्यर्थः । एकेति । विष्णोः सर्वशरीरस्थत्वे जीवेन सहैकशरीरस्थत्वप्राप्तेरिति भावः । संशब्द स्य ‘व्यवहृपणोस्समर्थयोः’ इत्यत्रेव समानार्थत्वमाश्रित्याह—समा नेति । परस्य जीवसमानभोगप्राप्तिर्बाधिकाऽस्तीति शेषः । अतो जीव पक्ष इवेश्वरपक्षेऽपि बाधकसाम्यान्नायं सर्वगत इति वाक्यशेषः । प रिहारांशं व्याचष्टे—नेति । नेश्वरस्य समानभोगप्राप्तिरित्यर्थः ॥ ( २३ ) कुतो नेत्यतस्तत्र हेतुत्वेन वैशेष्यादित्यंशं योजयति—साम र्थ्येति ॥ स्वार्थे ष्यञ् । विशेषिणो भाव इति वा । तथा च परस्य स मानभोगाप्राप्तौ जीवादपि सामर्थ्यवैशेष्यादित्यर्थः ॥ ( २४ ) किं तत्सामर्थ्यवैशेष्यं, येन समानभोगाप्राप्तिरित्यत आह— उक्तमिति ॥ न केवलं सूत्रे जीवेशयोर्भोगसाम्याभावः, तत्र हेतुत्वेन सामर्थ्यवैशेष्यं चोक्तम्, किन्तु गारुडे चेति समुच्चयार्थश्चः । किमु क्तमित्यतस्तत्पठति—सर्वज्ञेति । सर्वज्ञत्वाल्पज्ञत्वरूपभेदकधर्माभ्या मित्यर्थः । प्राप्तस्य बाधकस्य परिहाराय विष्णोः सामर्थ्ये सत्यपि प्र थमे प्राप्तिस्तावत्स्यादेव अग्निस्तम्भवतो दाहप्राप्तिवत् । साऽपि भगव ति न सम्भवति । तस्य सार्वज्ञेनैव दृष्टबाधकपरिहर्तृत्वसम्भवादिति भा वेनेह सार्वज्ञोक्तिः, न हेतुत्वेन, हेतुस्तु सर्वशक्तित्वम् । तलः तसि ल्श्च प्रत्येकमन्वयः । ईश्वरस्य जीवेन सहैकशरीरस्थत्वेऽपि दुःखप रित्यागेन सुखमात्रभोगे स्वातन्त्र्यं हेतुः । जीवस्य चोभयानुभवे पा रतन्त्र्यं हेतुरिति विवेक्तव्यम् । ‘सम्भोगः’ समानभोगः । गारुड इ त्यन्वयः । ‘इति च’ इति चशब्दपाठे तत्र पूर्वोक्तेन समुच्चयार्थश्च कारः । अनेन यतो यथा एकस्य जीवस्य सर्वशरीरस्थत्वे सर्वसमान भोगप्राप्तिः बाधिकाऽनुपपत्तिः सूत्रोक्ताऽस्ति । तथा एवमीशस्य