पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 218, कुल 1267 में से
संदर्भ में पढ़ें[ अधि - २. सू - ९. ] दीपिकासहितम्. १७१ ( ३ ) अत्रोच्यते— सू—ॐ ॥ अत्ता चराचरग्रहणात् ॥ ॐ ॥ ९ ॥ ( ४ ) न हि चराचरस्य सर्वस्यात्तृत्वमदितेः । ( ५ ) स्रष्टा पाता तथैवात्ता निखिलस्यैक एव तु । वासुदेवः परः पुंसामितरेऽल्पस्य वा न वा ॥ इति स्कान्दे । ( ६ ) एकः पुरस्ताद्य इदं बभूव यतो बभूव भुवनस्य गोपाः । यमप्येति भुवनं साम्पराये प्रकृतिः ' अक्षरो' देहतोऽविनाशित्वादुच्यते इति गीतावाक्यस्यार्थः । दिक्शब्दितानां पूर्वादिचतुर्दिगवस्थितभगवद्बाहूनां 'वत्सं' ततो जा तं 'वायुं' मुख्यप्राणमहं 'वेद' जानामीत्यर्थः । लक्ष्मीवाक्यमेतत् ॥ ( ३ ) सिद्धान्तयत्सूत्रमवतारयति—अत्रेति ॥ इति चोद्ये समाधा नमुच्यते सूत्रकृता इति शेषः । अनेन सूत्रेऽत्रोच्यते इति शेषो दर्शि तः । तत्सूत्रं पठति—अत्तेति । तत्स्वित्यनुवर्तते, विपरिणम्यते च । त था चात्र वाक्ये यः 'अत्ता' संहर्तोच्यते स विष्णुरेव । कुतः ? 'सर्वं वा अत्ति' इति 'चराचरस्य' चेतनाचेतनरूपस्य विश्वस्याद्यतया संहार्य तया 'ग्रहणा'च्चराचरात्तृत्वलिङ्गादिति यावदिति सूत्रार्थः ॥ ( ४ ) चराचरस्याद्यतया ग्रहणेऽपि कुतो नादितेस्तदत्तृत्वमिति लिङ्गस्य सावकाशत्वशङ्कां निराह—न हीति ॥ हिशब्दः प्रसिद्धौ । च राचरस्येति सूत्राक्षराण्यनूद्य श्रुत्यनुसारेण सर्वस्येति व्याख्यानम् । न च सामान्यपदेन व्याख्यानं व्यर्थमिति वाच्यम् । सूत्रस्य श्रुतिवि संवादप्रतीतिनिरासार्थत्वात् । ' अदितेः ' देवमातुः ॥ ( ५ ) चराचरात्तृत्वं विष्णोरपि कुतः सिद्धमित्यत आह—स्रष्टे ति ॥ 'पुंसां परः' तेभ्य उत्तमो 'वासुदेवः' कृष्णः 'एक एव' नि खिलजगतः एकः स्वतन्त्रः 'स्रष्टा' सृष्टिकर्ता तथा 'पाता' रक्षिता तुश्चार्थे । अत्ता च । 'वासुदेवेतरे' ब्रह्माद्यास्तु 'अल्पस्य' जगदेक देशस्यास्वातन्त्र्येण सृष्ट्यादिकर्तारो भवन्ति । स्वातन्त्र्यापेक्षया ने त्यर्थः । इति स्कान्दे इत्यनन्तरं उक्तत्वादिति वाक्यशेषः ॥ ( ६ ) स्पष्टार्थत्वात्प्रथमं स्मृतिमुदाहृत्यात्रैवार्थे श्रुतिमप्याह—ए क इति ॥ एक इत्यस्यावृत्तिः, इदमित्यस्याप्यावृत्तिपरिणामौ । तथा