पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 224, कुल 1267 में से
संदर्भ में पढ़ें[ अधि - ३. सू - ११. ] दीपिकासहितम्. १७७ जगाम' (ऋ. १०-११४-१०) इत्यादिना तद्दर्शनात् ॥ तिमुदाहरति—घर्मेति ॥ भगवन्ताविति, कर्तुमिति च शेषः । त्रिवृतमि त्यावर्तते । तथा च ' घर्मो' घर्मौ दीप्तौ घर्षकौ सङ्कोचकाविति वा । ' घर्षणात्सर्वलोकस्य नृसिंहो घर्म उच्यते' इत्यैतरेयभाष्योक्तेः, घृष्ट त्वेन घर्षकत्वेन च मिताविति तत्त्वप्रदीपोक्तेश्च । ' समन्ता' समन्तौ व्याप्तौ प्रकृतिपुरुषकालव्यापिनौ । देशतः कालतः शक्तितश्च सम्पू र्णौ यौ भगवन्तौ त्रिवृतं तेजोबन्नात्मकं शरीरं ' व्यापतुः ' विशेषेणा पतुः देहहृदयगुहास्थानं प्राप्तौ । तयोः ' जुष्टिं' सेवां कर्तुं ' मातरिश्वा' मुख्यवायुरपि त्रिवृतं जगाम । 'दिवो' देव्या वायुपत्न्याः स्तन्यं 'प यो' 'दिधिषाणाः' पिपासन्तो देवाः द्विरूपं तमेकं 'अवेपन्' अन्वै च्छन् । तं ' अर्कं' अरं अलं कं सुस्वरूपं ' सहसामानं ' सहवायुं वि दुरिति श्रुत्यर्थः । गुर्वर्थदीपिकायां तु—समन्तादिति पदच्छेदं कृत्वा विद्यमानाविति चाध्याहृत्य समन्ताद्विद्यमानौ व्याप्ताविति व्याख्यात म् । तच्चिन्त्यम् । इत्यादिनेति । वाक्येनेति शेषः । आदिपदेन 'दिव स्पयः' इत्युत्तरार्धं, तथा— एकः सुपर्णः स समुद्रमाविवेश स इदं विश्वं भुवनं विचष्टे । तं पाकेन मनसाऽपश्यमन्तितस्तं माता रेल्हि स उ रेल्हि मातरम्॥ सुपर्णं विप्राः कवयो वचोभिरेकं सन्तं बहुधा कल्पयन्ति । (ऋ. १०-११४-४,,५० ) इत्यादिकं च गृह्यते । 'एकः सुपर्णः' सुष्ठु परमानन्दरूपो भग वान् समुद्रमाविवेश । स इदं सर्वं जगत् 'विचष्टे' पश्यति । 'तं ' परमात्मानं पक्वेन मनसा अहमपश्यम् । 'तं माता' व्यञ्जकत्वाद्वा क् सरस्वती 'रेल्हि' लिह्यत इव । स परमात्मा मातरं रेल्हि । ताव न्योन्यं सम्बद्धौ भवतः । तथा च—भगवद्व्यञ्जकवाचोऽपि तद्व्यङ्ग्य त्वमिति भावः । तमेव सुपर्णमेकं सन्तं 'विप्राः' विशेषेण प्रकृष्टाः कवयो 'वचोभिः' शब्दैः 'बहुधा' केशवादिद्वादशधा स्थितं कल्प यन्ति चिन्तयन्ति इत्यर्थः । तद्दर्शनादिति । हस्य विष्णोः द्विरूपतया सर्वशरीरप्रवेशस्य उक्तत्वादित्यर्थः । तथा च—एकस्मिन्नपि विष्णौ युक्तं रूपद्वयाभिप्रायेण द्विवचनमिति भावः । एवं तद्दर्शनात् इत्येतत् तत्त्वप्रदीपरीत्या उक्तविशेषणे निर्णीतेविष्णौ द्विवचनदर्शनात् 'एकः सुपर्णः' इत्यादिना तच्छब्देनेकवचनेन परामर्शदर्शनात् तस्यैव समु २३