पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 241, कुल 1267 में से
संदर्भ में पढ़ें१९४ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - २. ] ( १३ ) 'विज्ञानमानन्दं ब्रह्म' ( बृ. ५-९-२८. ) 'आनन्दो ब्र ह्मेति व्यजानात्' ( तै. ३-६. ) इत्यादेस्तस्यैव हि तल्लक्षणम् । ( १४ ) लक्षणं परमानन्दो विष्णोरेव न संशयः । अव्यक्तादितृणान्तास्तु विप्रुडानन्दभागिनः ॥ इति ब्रह्मवैवर्ते । त्वं सिद्धयति किमुत तदा 'खं ब्रह्म' इति पूर्णज्ञानादपीति कैमुत्यन्या यसूचनाय सूत्रे एवकारः । यद्यपि छान्दोग्यभाष्ये 'प्राणो ब्रह्म' बलं रूपं ब्रह्म । 'कं' पूर्णानन्दरूपं ब्रह्म । 'खं' पूर्णज्ञानरूपं 'ब्रह्म' परं ब्र ह्मेति व्याख्यातम् । तथापि तद्ब्रह्मशब्दस्य परापरयो रूढ्या वृत्त्या व्या ख्यानान्तरमित्यदोषः ॥ ( १३ ) ननु उपक्रमे पूर्णसुखसंविदोर्भिधानेऽपि कुतोऽस्य प्रकर णस्य वैष्णवत्वमित्याशङ्क्य तयोस्तल्लक्षणत्वात् तद्रूपत्वात् उपक्रमे तदभिधाने ब्रह्मैवोपक्रान्तं स्यादिति भावेन पूर्णसुखज्ञानयोर्ब्रह्मलक्षण त्वं श्रुत्या दर्शयति—विज्ञानमिति ॥ विज्ञानादिरूपं ब्रह्मेत्यर्थः । अत्र विज्ञानादिपदं पूर्णज्ञानादिवाचि, सङ्कोचे कारणाभावादिति प्रकृतस ङ्गतिः । इदं वाजसनेये श्रुतम् । 'आनन्दो ब्रह्म' इति । तैत्तिरीयवा क्यादिति शेषः । आदिशब्देन 'अथैष एव परम आनन्दः' 'सत्यं ज्ञा नम्' इत्यादिकं गृह्यते । तथा च इत्यादेर्वाक्यात् 'तस्य' ब्रह्मणः 'तत्' पूर्णानन्दादिकं 'लक्षणं' स्वलक्षणं ज्ञायत इत्यर्थः । तथा च-श्रुत्यन्त रे ब्रह्मलक्षणत्वेनावगतयोः पूर्णज्ञानसुखयोरत्र प्रकरणेऽभिधानात् अ स्य वैष्णवत्वसिद्धिरिति भावः ॥ ( १४ ) ननु सकलचेतनानामपि पूर्णानन्दत्वात्कथमेतद्विष्णुलक्षण मित्यत आह—लक्षणमिति ॥ स्वरूपधर्मोभयार्थकोऽयम् । 'परमान न्दः' निरवधिकपूर्णानन्द एव लक्षणम् । इह लक्षणत्वेनाभिप्रेतः न पू र्णानन्दमात्रम् । स च विष्णोरेव नान्येषाम् । अन्येषां त्वापेक्षिकमेव पूर्ण सुखं, न विष्णुवन्निरवधिकं पूर्णमित्यर्थः । कुत इत्यत आह—य तः अव्यक्तादीति । अव्यक्ता श्रीः सैवादिर्येषां ते तथोक्ताः । तृणजीवा मनुष्योत्तमा एवान्ते एषां ते तथोक्ताः । अव्यक्तादयश्च ते तृणान्ता श्चेति कर्मधारयः । तुशब्दो विशेषार्थः । 'विप्रुडानन्दभागिनः' तारत म्येन ब्रह्मानन्दप्रतिबिम्बवत्त्वापेक्षिकानन्दयुक्ता इत्यर्थः । चेतना इति शे