भारतकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 243, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 243

१९६ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - २. ] ' स एनान् ब्रह्म गमयति' (छा. ४-१५.) इति । द्विद्यानां पुंसां केन वायुना कगतेः 'कं ब्रह्म'इति वाक्यबोधितब्रह्मप्राप्तेः ' स एनान् ब्रह्म गमयति' इत्युपसंहारेऽभिधानात् विष्णुविषयैवाक्षि स्थविद्या, न त्वग्निविषयेति सूत्रार्थः । यद्वा-श्रुतोपनिषदमुपकोसलं प्रत्यग्निभिरेतद्विद्याफलत्वेन ब्रह्मगत्यभिधानाद्वैष्णवमेवेदं प्रकरणं, न त्वग्निविषयमित्यर्थः । तत्त्वप्रदीपे तु-' स एनान् ब्रह्म गमयति' इति श्रुतोपनिषत्कानां श्रुतोपनिषद्वतोपासनानां ब्रह्मगत्यभिधानाच्च आन्त रो विष्णुरेव । अस्यामुपनिषीदति ब्रह्मेत्युपनिषत् उपासना । अनया ब्रह्म उपनिषीदतीति वेत्युक्तम् । श्रुतिविषयिणी या उपनिषत् मति र्ध्यानरूपोपासना तत्कानां तद्गतं तद्विषयकं ध्यानरूपोपासनं तद्गता मित्यर्थः । अनेन उपनिषच्छब्दो मतिध्यानरूपोपासनापरः । ब्रह्मेत्यने न बहुव्रीहिसमासावयवभूतः कशब्द आवृत्तो ब्रह्मवाचक इत्युक्तं भ वति । अत एवाह टीकाकृत्- श्रुतपदं मनननिदिध्यासनयोरुपलक्ष कमित्यादिना । तत्त्वप्रदीपपक्षे-उपनिषच्छब्द उपासनापरः । टीका कृतपक्षे विद्यापरः । टीकायां वाशब्दश्चार्थः । यद्यप्यस्य सूत्रस्य प्रकर णविच्छेदशङ्कापरिहारायोपसंहारस्थलिङ्गोक्तिपरत्वेन परमसाध्ये यु क्त्यन्तरप्रतिपादकत्वाभावादत्र चशब्दो न योज्यः । तथाऽपि ' स एनान् ब्रह्म' इत्युपसंहारस्थस्यैतद्विद्यावेत्तॄणां ब्रह्मप्राप्तिरूपलिङ्गस्य चक्षुरन्तरो विष्णुरेवेति परमसाध्येऽपि साक्षादन्वयादस्य च लिङ्ग स्य आद्यसूत्रोक्तामृतत्वाल्लिङ्गापेक्षयोत्तरवाक्यस्थद्वितीयसूत्रोक्तलिङ्गा पेक्षया तृतीयसूत्रोक्तप्रकरणापेक्षया युक्त्यन्तरत्वात्तद्विवक्षया सूत्रे चशब्दप्रयोगोपपत्तिरिति केचिदाहुः । वस्तुतस्तु--अत्र प्रकरणविच्छे दशङ्कापरिहारेऽपि पूर्वसूत्रेऽत्र चैतत्प्रकरणस्य वैष्णवत्वरूपाध्याहृता वान्तरसाध्यस्यैकत्वेन तत्रानेन युक्त्यन्तराभिधानाच्चशब्दोपपत्तिः । अथ 'यदु चैवास्मिञ्छव्यं कर्म कुर्वन्ति यदि चनार्चिषमेवाभिसंभव न्ति । अर्चिषोऽहरह्न आपूर्यमाणपक्षमापूर्यमाणपक्षाद्यान् षडुद ङ्ङेति मासान्मासेभ्यः संवत्सरं संवत्सरादादित्यमादित्याच्चन्द्रमसं च न्द्रमसो विद्युत्तं तत्पुरुषो मानवः स एनान् ब्रह्म गमयति' इति छा न्दोग्यश्रुतेरयमर्थः-अथेत्यर्थान्तरे । 'अथ'अवासितकर्मणि 'अस्मिन्' ज्ञानिविषये पुत्रादयो यदि 'शव्यं' शवयोग्यं दहनादिकर्म कुर्वन्ति । 'यदि च न' यदि वा न कुर्वन्ति 'तदार्चिषं' अर्चिर्नामकदेवलोकं

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक) · पृष्ठ 243, कुल 1267 में से · BharatKosha