पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 285, कुल 1267 में से
संदर्भ में पढ़ें२३८ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - ३. ] (८) सोऽन्तकः स रुद्रः स प्राणभृत्स प्राणनायकः स ई शो यो हरिर्योऽनन्तो यो विष्णुर्यः परोवरीयान् ’ इ त्यादिना प्राणग्रन्थिरुद्रत्वादेर्विष्णोरेवोक्तत्वात् । ( ९ ) ब्रह्माण्डे च— द्युमच्यते । एवमानुमानमिति पदच्छेदेऽप्यणन्तात्पुनरन् कार्यः । तत्र प्रथमानन्तपदेनागम उच्यते । द्वितीयेन प्रतिपाद्यत्वम् । तथा च अ नुमानात्मकपाशुपताद्यागमप्रतिपाद्यं रुद्रादिकं न द्युभ्वाद्यायतनं न ‘यस्मिन्’ इत्यादिप्रकरणे सर्वाश्रयत्वेन प्रतिपाद्यं, कुतः ? ‘अत च्छब्दात्’ रुद्रप्रधानादिसाधकश्रुतिलिङ्गाद्यभावादिति सूत्रार्थ उ क्तो भवति ॥ (८) नन्वाथर्वणे रुद्रादिज्ञापकाभावेऽपि अत्रोक्तप्राणाधारत्वप्रतिपा दिकायां ‘प्राणानां ग्रन्थिरसि रुद्र’ (महाना-३५०) इत्यादिसमाख्याश्रु तौ रुद्रादिशब्दानां अन्तकत्वादिलिङ्गानां चोक्तत्वात्तद्बलात्तत्रोक्तं द्यु भ्वाद्यायतनत्वं रुद्रादेः किं न स्यादित्यत आह—स इति ॥ योऽन्तकस्संह र्ता स एव तच्छब्दवाच्यः श्रुतः स विष्णुरेव । यो रुद्रः श्रुतः सोऽपि विष्णुरेव । यः ‘प्राणभृत्’ प्राणाधारत्वबोधकप्राणग्रन्थिशब्दवाच्यः, सोऽपि विष्णुरेव । यः ‘प्राणनायकः’ तत्स्वामी ततएव प्राणेशशब्दि तः सोऽपि विष्णुरेव । य ईशः श्रुतः सोऽपि विष्णुरेव । योऽनन्तस्त च्छब्दवाच्यः सोऽपि त्रिविधपरिच्छेदशून्यत्वाद्विष्णुरेव, न शेषः । यः परोवरीयान् सोऽपि रुद्रादेः परतो वाण्यादेः पराद्विरिञ्चात् परतः प्रकृतेः परत्वाद्धरिरेव नान्य इति श्रुत्यर्थः । अत्रान्तराधिकरणोदाहृत चतुर्वेदशिखावाक्ये च ‘परस्मादुत्तमं प्रोक्तम्’ इति वचनानुसारेण परपरतरवरवरतमानां चतसृणां प्रत्यायनाय वृत्तिवाक्ये सुबादेश स्य सोरुत्वोत्वगुणसमानशब्दा ज्ञातव्याः । प्रत्युद्देश्यं विधेयान्वयज्ञाप नाय बहूनां यत्तदां प्रयोगः । ‘इत्यादिना’ श्रुत्यन्तरवाक्येन ‘प्राणग्र न्थिरुद्रत्वादेः’ प्राणग्रन्थित्वलिङ्गस्य रुद्रशब्दवाच्यत्वस्य च तस्यैव विष्णोरेवोक्तत्वादित्यर्थः । प्राणेश्वरादिशब्दवाच्यत्वमन्तकत्वादिलिङ्गं चादिशब्दार्थः । प्रकृतिश्रुतिलिङ्गादेरप्युपलक्षकमेतत् । न तु रुद्रादेरि त्येवकारार्थः । एवकारेणान्यत्रामुख्यतस्सत्त्वमनुमन्यते । उक्तत्वादि त्यस्य ‘न रुद्रादिश्रुतिलिङ्गविरोधः’ इत्यध्याहृतसाध्येनान्वयः ॥ (९) ननु तथाऽपि न प्राणाधारत्वद्युभ्वाद्यायतनत्वबोधकसमाख्याश्रु