पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 287, कुल 1267 में से
संदर्भ में पढ़ें२४० ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - ३. ] वेदेषु सपुराणेषु गीयते पुरुषोत्तमः ॥ इति । ( ११ ) वामने च - न तु नारायणादीनां नाम्नामन्यत्र सम्भवः । अन्यनाम्नां गतिर्विष्णुः एक एव प्रकीर्तितः ॥ इति । ( १२ ) स्कान्दे च - ऋते नारायणादीनि नामानि पुरुषोत्तम । प्रादादन्यत्र भगवान् राजेवार्ते स्वकं पुरम् ॥ इति । ह—एवमिति ॥ निमित्तैरित्यध्याहार्यम् । तथा च 'एवं' उक्तरीत्याना नाविधैर्निमित्तैः सपुराणेषु वेदेषु गतैः एतैर्नानाविधैः शब्दैर्विष्णुरेक एव 'गीयते' मुख्यतोऽभिधीयत इत्यर्थः । कथमन्यत्रादृष्टं सर्वशब्दमुख्य वाच्यत्वमस्येत्यतः 'पुरुषोत्तमस्त्रिविक्रमः' इत्याभ्यां तत्रोपपादकमु क्तम् । त्रिभुवनार्थशब्दव्यापी हि त्रिविक्रमः । सर्वपुरुषशब्दनिमित्त कस्वामी हि पुरुषोत्तमः । तथा चानेन विष्णौ रुद्रादिशब्दानां महायो गविद्वद्रूढिकथनात् तयोश्च रूढिमात्रात्प्राबल्याद्युक्तः समाख्याश्रुत्यन्त रेऽपि विष्णोः प्रतिपाद्यत्वनिश्चय इति भावः । 'पुरुषोत्तम इति' इत्य न्तस्य 'ब्रह्माण्डे' इति पूर्वेणान्वयः ॥ ( ११ ) ननु यदि रुद्रादिशब्दानां विष्णुपरत्वमुक्त्वा 'रुद्रो माऽऽविशान्त कः' इत्यादिश्रुतीनामनिर्णायकत्वमुच्यते, तर्हि नारायणादिनाम्नां रुद्रा दिपरत्वेन 'नारायणं महाज्ञेयम्' ( महाना-११० ) इत्यादिश्रुतीनामनि र्णायकत्वं च स्यादित्यत आह-वामने चेति ॥ चोऽप्यर्थे । अस्याप्युक्तत्वा दविरोध इति पूर्वेणान्वयः । किमुक्तमित्यतस्तद्वाक्यं पठति-न त्वि ति। तुरवधारणे । 'नारायणादीनां' नारायणइत्यादीनामन्यत्र रुद्रादौ सम्भवो मुख्यवृत्तिः अस्तीति शेषः। 'अन्यनाम्नां' रुद्रादिशब्दानां 'वि ष्णुरेक एव गतिः' मुख्यवाच्यः प्रकीर्तित इत्यर्थः । इतिशब्दस्य वाम न इत्यनेनान्वयः । तस्य नारायणादिनाम्नां अन्यत्र निरवकाशत्वोक्तेः न तच्छ्रुतीनामनिर्णायकत्वमिति विवक्षितसाध्येनान्वयः ॥ ( १२ ) भगवन्नामत्वाविशेषाद्रुद्रादिनामवन्नारायणादिनाम्नामपि रु द्रादौ वृत्तिः किं न स्यादित्यत आह-स्कान्दे चेति ॥ चोऽप्यर्थः समु च्चये । अस्याप्युक्तत्वादिति पूर्वेणान्वयः । किमुक्तमित्यतस्तद्वाक्यं प