पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 296, कुल 1267 में से
संदर्भ में पढ़ेंयहाँ प्रस्तुत पृष्ठ का पंक्ति-दर-पंक्ति लिप्यन्तरण है:
[ अधि - ३. सू - ९. ] दीपिकासहितम्. २४९
तृ' (बृ. ५-८-११.) इत्यादिना । 'अहं सोममाहन सं बिभर्मि' (ऋ. १०-१२५-२.) इत्यादेस्तस्यापि सम्भवान्मध्यमाक्षरस्योक्ता इति ।
पूर्ववाक्याद्बुद्ध्या विच्छेदेन प्राप्तिरितिपदमत्रानुवर्तते । तथा च—पूर्व मदृश्यत्वाधिकरणे ये अदृश्यत्वादिसुणा अक्षरस्य विष्णोरुक्ताः । ते वाजसनेयके 'तद्वा एतदक्षरं गार्गि अदृष्टं द्रष्टृ' इत्यादिना वाक्येन 'मध्यमाक्षरस्य' श्रीतत्त्वस्य 'उक्ताः' उच्यन्ते इत्येका योजना । अपरा तु—'तस्य' तेषामदृश्यत्त्वादिगुणानां 'तस्य' तस्मिन् मध्य माक्षरेऽपि सम्भवादुक्तत्वात् 'तस्य' चन्द्राद्याधारत्वलिङ्गस्यापि 'अहं सोममाहनसम्' इत्यादिवाक्यात्तस्मिन्नक्षरे उपपत्ते