पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 313, कुल 1267 में से
संदर्भ में पढ़ें३६६ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - ३. ] ‘अहरहर्गच्छन्त्य एतं ब्रह्मलोकं न विन्दन्ति’ ( छा. ८- ३-२.) इति सुप्तस्य तद्गतिर्ब्रह्मशब्दश्चोच्यते । (९) ‘सता सोम्य तदा सम्पन्नो भवति’ ( छा. ६-८.) इ ति श्रुतेस्तं हि सुप्तो गच्छति । (१०) ‘अरश्च ह वै ण्यश्चार्णवौ ब्रह्मलोके’ (छा. ८-५-३.) इति लिङ्गं च तथा दृष्टम् । साः प्रजाः ‘अहरहः’ प्रतिदिनमेतं ‘गच्छन्त्यः’ प्राप्यमाणाः ‘एतं’ ब्रह्मलोकं ब्रह्मणो विष्णोरावासस्थानभूतं हृत्पद्मं तद्द्वारा तत्रत्यं ब्रह्म साक्षालोकपदोक्तं ब्रह्माख्यमाश्रयं वा ‘न विन्दन्ति’ न विजानन्ति, स एष आत्मा हृदीति श्रुत्यर्थः । इतीति । इति छान्दोग्यवाक्ये ‘सुप्त स्य’ चेतनस्य ‘तद्गतिः’ अहरहो हृद्गतं ब्रह्मलोकं प्रति गतिः प्राप्तिः ‘उच्यते’ व्यपदिश्यत इत्यर्थः । ‘ब्रह्मशब्दः’ इत्यत्रापि तदिति पदं बुद्ध्या विविच्य विपरिणामेन सम्बध्यते। तथा च तस्मिन् प्राप्यमाणे हृद्गते ब्रह्मलोके ‘ब्रह्मशब्दः’ ‘उच्यते’ श्रूयते इत्यर्थः । उच्यते च इत्य पि सम्बन्धः । चः समुच्चये । यत इति शेषः । अस्यातोऽपि दहरे वि ष्णुरेवेति प्रधानसाध्येनान्वयः ॥ (९) सुप्तप्राप्यत्वं कुतो विष्णुत्वनिश्चायकमित्यत आह-सतेति ॥ हे ‘सोम्य’ भक्तिज्ञानार्ह श्वेतकेतो ‘तदा’ सुप्तिकाले ‘सता’ ब्रह्म णा ‘सम्पन्नः’ सङ्गतो भवतीत्यर्थः । उद्दालकवाक्यमेतत् । श्रुतेरिति पञ्चमी । ‘तं’ विष्णुम् । हिशब्दः प्रसिद्धौ । ‘गच्छति’ प्राप्नोति । इ ति ज्ञायते इति शेषः । तथा च सुप्तप्राप्यत्वस्य विष्णुलिङ्गत्वेन श्रुति प्रसिद्धत्वात् तेन विष्णुत्वनिश्चयो भवतीति भावः ॥ (१०) ‘लिङ्गं च तथा हि दृष्टम्’ इति सूत्रशेषं हेत्वन्तरपरतया व्याचष्टे—अरश्चेति ॥ चशब्दो हेतुसमुच्चये । यथा सुप्तगम्यत्वं ‘अह रहः’ इति श्रुतौ हृत्पद्मस्थे दृष्टम्, तथा अरण्यनामामृतसमुद्रद्वया श्रयलोकवत्त्वरूपं लिङ्गमपि ‘अरश्च’ इति श्रुतौ हृत्पद्मस्थे दृष्टं श्रुत मिति । उपमायां तथाशब्दः । अनेनासिद्धिः परिहृता । न च गतिशब्द योरिवास्य सन्निधौ हृत्पद्मस्थस्यानुक्तेरसिद्धिनिवृत्तिरिति वाच्यम् । हृत्पद्मस्थस्य ब्रह्मण आवासत्वेन निमित्तेन तल्लोकभूते हृत्पद्मे ‘एतं ब्रह्मलोकम्’ इतिप्रयुक्तस्य ब्रह्मलोकशब्दस्यारण्याश्रयलोकेऽपि प्रयो गात्तन्मुखेन तादृशलोकवत्त्वरूपलिङ्गस्य हृत्पद्मस्थब्रह्मनिष्ठतायः प्रा