पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 333, कुल 1267 में से
संदर्भ में पढ़ें२८६ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - ३. ] ( २ ) स च ‘ एवमेवैष प्राण इतरान् प्राणान् पृथक्पृथगेवसन्नि- धत्ते’ (प्रश्न.३-४.) ‘योऽयं मध्यमः प्राणः’ (बृ.३-५-२१.) चित्वात् सर्वदेवोपास्य इत्युक्तिरनुपपन्नेति वाच्यम् । गणविशेषपर- त्वे तस्य गुणाधिक्यासिद्ध्या सर्वदेवपरत्वावश्यंभावात् । अनेन— ईशानशब्दस्यान्यनिष्ठत्वाक्षेपमुखेन फलतो मुमुक्षुकर्तृकजिज्ञास्यत्व- स्यान्यनिष्ठत्वाक्षेपात् जिज्ञासाधिकरणेनास्याक्षेपिकी सङ्गतिरुक्ता भ- वति । तथेशानाख्यो विषयश्च सूचितः ॥ ( २ ) सयुक्तिकं पूर्वपक्षयति—स चेति ॥ अत्रेत्थं योजना—‘ स च ’ सर्वदेवोपास्यश्चेशानो वायुरेव भवेत्, न विष्णुः । कुतः? अत्र प्राणव्यवस्थापकत्वश्रवणात् । तथा मध्यमत्वोक्तेः सर्वदेवतोपास्य- त्वोक्तेश्च । न चैषां वाय्वेकनिष्ठत्वासिद्धिः । यतोऽयं वायुः ‘एवमे- वैष प्राणः’ (प्रश्न.३-४.) ‘योऽयं मध्यमः’ ‘कुविदङ्ग’ (ऋ.७-९१-१०.) इत्यादिना वाक्येन स प्राणव्यवस्थापकत्वादिमान् प्रतीयते, अत इति । काठके हि— अङ्गुष्ठमात्रः पुरुषो मध्य आत्मनि तिष्ठति । ईशानो भूतभव्यस्य ॥ ( कठ. ४-१२. ) इत्यनेन भगवतोऽङ्गुष्ठमात्रत्वं पूर्णषड्गुणत्वं देहमध्यस्थत्वं भूतभवि- ष्यद्वर्तमानेशानत्वमित्यादिमाहात्म्यमभिधायेशानपदोक्तस्य तस्यैव ‘ ऊर्ध्वम् ’ इत्यादिना महिमान्तरमुच्यते । तत्र मध्यशब्दः सिद्धान्ते ऊर्ध्वप्रत्यक्छब्दसमभिव्याहारात् देशविशेषवचनः, न त्ववान्तरेश्व- रत्वादिरूपमध्यमत्वार्थकः । तथा च यः प्राणाख्यरूपेण ‘प्राणं’ प्राणा- ख्यवायुमूर्ध्वं ‘उन्नयति’ उद्गमयति ऊर्ध्वगतिमत्तया प्रेरयति । अ- पानरूपी चापानाख्यं वायुं ‘प्रत्यक्’ अधस्ताद्विण्मूत्रादिनिष्कासमहे- तुतया ‘अस्यति’ निरस्यति प्रेरयतीति यावत् । तं ‘देहमध्ये’ हृद- ये ‘आसीनं’ उपविष्टं ‘वामनं’ सौन्दर्यप्रधानाः स्त्रियो वामाः ताः ने- तारं विष्णुं ‘विश्वे देवाः’ सर्वे देवाः ‘उपासते’ जिज्ञासन्त इति सिद्धान्तरीत्या श्रुत्यर्थः । पूर्वपक्षी त्विदं वायुपरं मत्वा मध्यशब्दो ‘योऽयं मध्यमः’ इति श्रुत्यन्तरसमाख्यानान्मध्यमेश्वरत्ववचनो न दे- शविशेषवचन इत्याह । ‘एवम्’ इति षट्प्रश्नवाक्यं च ‘यथा सम्रा- डेवाधिकृतान्विनियुङ्क्ते एतान्ग्रामानधितिष्ठस्वेति’ इति दृष्टान्तवाक्ये- न सह व्याख्येयम् । तत्प्रकारस्तु-यथा ‘सम्राट्’ सार्वभौमः ‘अधिकृता