पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 335, कुल 1267 में से
संदर्भ में पढ़ें३८८ ब्रह्मसूत्रभाष्यम्. [अध्या - १. पा - ३.] वामनशब्दादेव विष्णुरिति प्रमितः । ( ३ ) न हि श्रुतेर्लिङ्गं बलवत् । ( ४ ) श्रुतिर्लिङ्गं समाख्या च वाक्यं प्रकरणं तथा । दिति चोद्यपरिहाराय लिङ्गेभ्यः श्रुतेः प्राबल्यमाह । यथोक्तं सुधायां म्—एवशब्दव्याख्याने बलवदिति 'शब्दादेव प्रमितः' इति यथेति । स मन्वयसूत्रादनुवृत्तस्य तदित्यस्यार्थो विष्णुरिति । विधेयभूतविष्णु स्वस्यान्ययोग्योद्देश्यद्योतनायेतिशब्दप्रयोगः । आवर्तते चायम् । इ तिशब्दात्परमपि एवशब्दो योज्यः । तेनानुवृत्तस्तुशब्दो व्याख्यातः । तथा च 'ईशानो भूतभव्यस्य' (कठ. ४ - १२.) इतिश्रुत ईशानो विष्णुरेव भवेत् । कुतः ? यस्तत्र प्रमितो विष्णावेव महायोगविद्वद्रू ढिभ्यां प्रसिद्धो 'मध्ये वामनम्' इतिश्रुतो वामनशब्दस्तस्मादेवेति योजना । प्रमितपदं श्रुतेर्निरवकाशत्वसूचकम् । अनेन सूत्रे इतिश ब्दोऽध्याहार्य इति सूचितम् । तथा च 'ईशानो भूतभव्यस्य' इतिश्रुत ईशानः 'तत्तु' विष्णुरेव भवेत् । कुतः ? यस्तत्र विष्णावेव प्रमितो महायोगविद्वद्रूढिभ्यां प्रसिद्धोऽन्यत्रनिरवकाशो 'मध्ये वामनमासी नम्' (कठ. ५ - ३.) इतिश्रुतो लिङ्गात्प्रबलो वामनशब्दस्तच्छ्रुति स्तस्मादिति सूत्रार्थः ॥ ( ३ ) सूत्रे एवकारप्रयोगेन सूचितं श्रुतेः प्राबल्यं लिङ्गस्य प्राब ल्यनिषेधमुखेन दर्शयति—न हीति ॥ श्रुतेरिति पञ्चमी । हिशब्दो व क्ष्यमाणप्रमाणविरोधादिति हेतुसूचकः । तथा च 'हि' यस्मान्न श्रुतेर्लिङ्गं बलवत्, किन्तु दुर्बलमेव । तस्माल्लिङ्गात् प्रबलात् वामनश ब्दादेवेशानो विष्णुरेवेत्यर्थः ॥ ( ४ ) कुतो न श्रुतेर्लिङ्गं बलवदित्यतस्तथासति श्रुतेर्लिङ्गात्प्राबल्य वचनविरोधापत्तेरित्याशयेन तद्वाक्यं पठति—श्रुतिरिति ॥ इति स्का न्द इत्यनन्तरं वचनादिति शेषः । अस्य न हीत्यनेनान्वयः । वाचक शब्दश्श्रुतिः । असाधारणधर्मो वा, तद्बोधकशब्दो वा लिङ्गम् । निर्णी तस्यान्यत्र समानोक्तिः समाख्या । सा द्विविधा—अर्थतःशब्दतोऽपी ति । समभिव्याहृतपदैरेवाकांक्षापूर्तौ तच्छान्त्यर्थं पदान्तरानिरपेक्षा णि पदानि वाक्यम् । एकप्रमेयप्रतिपादकानेकवाक्यानि प्रकरणम् । अनुक्तस्थानसमुच्चये तथेतिशब्दः । अनेकप्रमेयप्रतिपादकमेकार्थता