पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 342, कुल 1267 में से
संदर्भ में पढ़ें[ अधि - ८. सू - २६. ] दीपिकासहितम्. २९५ ( २ ) तिर्यगाद्यपेक्षयैव मनुष्यत्वविशेषणमुक्तं, न तु देवा- द्यपेक्षयेत्याह— ( ३ ) सू— ॐ ॥ तदुपर्यपि बादरायणः सम्भवात् ॥ ॐ ॥ २६ ॥ साङ्गकत्वान्नाध्यायपादसङ्गतौ मार्गणीये । श्रुत्यादिसङ्गतिविषयसंश- यतद्बीजानि दर्शयति— मनुष्याणामिति ॥ ‘ उक्तं ’ पूर्वसूत्रे । तुशब्दा- र्थावधारणस्य समासप्रविष्टमनुष्यपदेनापि सम्बन्धोऽस्तीति भावेन मनुष्याणामेवेत्यनुवादः । नैतरेषामित्येवशब्दार्थः । ‘ वेदविद्याधिका- रो ’ वेदविद्योपासनाधिकारः । अनेन—देवाधिकाराभावमुखेन ‘ वि- श्वे देवा उपासते ’ इत्यादिपूर्वोदाहृतश्रुत्युपलक्षिताशेषश्रुतिप्रामाण्य- स्याक्षेपात्पूर्वाधिकरणेनास्याक्षेपिकी सङ्गतिः वेदविद्याधिकाराख्यो विषयश्चोक्तो भवति । ‘