पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 352, कुल 1267 में से
संदर्भ में पढ़ें[ अधि - ८. सू - ३०. ] दीपिकासहितम्. ३०५ ( १३ ) सू—ॐ ॥ अत एव च नित्यत्वम् ॥ ॐ ॥ २९ ॥ अत एव शब्दस्य नित्यत्वादेव च देवप्रवाहनित्यत्वं युक्तम् ॥ २९ ॥ ( १४ ) सू—ॐ ॥ समाननामरूपत्वाच्चावृत्तावप्यविरोधो द र्शनात्स्मृतेश्च ॥ ॐ ॥ ३० ॥ ‘क्वापि’ कदापि ‘अनीदृशं’ पूर्वपूर्वविसदृशं देवताप्रभवशून्यं न भ- विष्यति, किन्तु तत्सद्भावोपेतमेव भविष्यतीति । यद्वा—‘एतत्’ चे- तनाचेतनात्मकं विश्वमनीदृशं न भविष्यति, किन्तु नामरूपाभ्यामीदृ- शमेव भविष्यतीत्यर्थः । तत्वप्रदीपे त्वियं श्रुतिः ‘यथैव कालनियमः’ इति व्यत्यासेन पठिता ॥ ( १३ ) युक्त्यन्तरेण देवप्रवाहस्य नित्यतां साधयत्सूत्रं पठित्वा व्या- चष्टे—अतएवेति ॥ अतएवेत्यनुवादः । तस्य व्याख्यानं—‘शब्दस्य’ वेदस्य नित्यत्वादेवेति । एवकारेण न देवप्रवाहनित्यत्वे युक्त्यन्तरं ग- वेषणीयम्, किन्तु यत्पूर्वपक्षिणा वेदनित्यत्वं सप्रमाणकमुक्तं, तत ए- व तदन्यथाऽनुपपत्त्यैतत्सिध्यतीति सूचयति । नित्यत्वादेवेत्युपलक्षणं, प्रामाण्यस्य साधितत्वेनाप्रामाण्याभावादेवेत्यपि अतःशब्दव्याख्यानं द्रष्टव्यम् । अन्यथा पूर्वपक्षी अप्रामाण्येनान्यथोपपत्तिं ब्रूयात् देवप्रवा- हस्य । युक्तमिति च सूत्रशेषोक्तिः । ‘युक्तं’ वेदनित्यत्वान्यथाऽनुपप- त्त्याख्ययुक्तिसिद्धम् । चशब्दस्तु समुच्चेतव्ययुक्तीनां शब्दात्प्रत्यक्षा- दनुमानादित्यनेन दर्शितत्वात्तत्समुच्चायकतयाऽर्थाद्व्याख्यातः । अ- तएव पूर्वसूत्रभाष्ये चशब्दः संयोजितः । अत्रापि भाष्ये चशब्देन च तद्वाच्यदेवतास्वरूपस्यैव नित्यत्वेन अन्यथोपपत्तिः । अतएव ‘सूर्या- चन्द्रमसौ’ (महाना. १-३८.) ‘यथैव’ इत्याद्युदाहृतश्रुतेरेव ‘यमप्येति भुवनं साम्पराये’ ( नृपू. २ - ४. ) ‘यत्प्रयन्त्यभिसंविशन्ति’ ( तै. ३-१०.) इत्यादि बहुलं प्रलयश्रुतेश्च सूर्यादिदेवानामुत्पत्तिनाशावग- मात् , अतएव स्वरूपनित्यत्वायोगेन प्रवाहरूपेणैव तेषां नित्यत्वाव- श्यंभावादित्यादिटीकोक्तार्थः सर्वोऽपि सङ्गृहीतः ॥ ( १४ ) ननु न देवानां प्रवाहनित्यत्वेनापि वेदप्रामाण्योपपत्तिः । त- था हि—किं पूर्वकल्पे मुक्ता एव देवा उत्तरकल्पे पुनरावर्तन्ते, तद- न्ये वा । नाद्यः । मुक्तेरपुनरावृत्तित्वात् । न द्वितीयः । तथात्वे धर्मिं ३९