पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 371, कुल 1267 में से
संदर्भ में पढ़ें३२४ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - ३. ] ( १३ ) सू—ॐ ॥ तदभावनिर्धारणे च प्रवृत्तेः ॥ ॐ ॥ ३७ ॥ 'नाहमेतद्वेद भो यद्गोत्रोयमस्मि' ( छा. ४-४. ) इ- तिसत्यवचनेन सत्यकामस्य शूद्रत्वाभावनिर्धारणे हारिद्रुमतस्य 'नैतदब्राह्मणो विवक्तुमर्हति' (छा.४-४.) ( १३ ) ननु शूद्रे संस्काराभावेन वेदविद्याधिकाराभावोक्तिरनुपप- न्ना । 'शूद्रं नोपनयेत' इति निषेधाभावेन तस्यापि संस्कारसम्भ- वात् । 'नाग्निर्न यज्ञः' इति श्रुतौ तु शूद्रस्य संस्काराभाव एवोच्यते न तु असौ न कार्य इति निषिध्यते । अतो न तद्विरोधोपीत्याशङ्कां प- रिहरत्सूत्रं पठित्वा व्याचष्टे—तदभावेति ॥ 'इति सत्यवचनेन' वा- ङ्मनसयोरेकरूपयथार्थवचनेन तज्ज्ञापितेनार्जवेनेति यावत् । 'सत्य- कामस्य' तदाख्यस्य ऋषेः एतच्च पूर्वत्रोत्तरत्र च सम्बध्यते । 'सत्यव- चनेन सत्यकामस्य' इत्यादिना सूत्रे तच्छब्दो व्यस्तः अनेकविभक्तिकः बुद्ध्या विविच्योपवर्तते इत्युक्तं भवति । शूद्रत्वाभावनिर्धारणे चेत्यस्य नैतदब्राह्मण इत्यनेन सम्बन्धः । चोऽवधारणे । श्रुतावब्राह्मणमात्रस्य अ- नुपनयनाभिप्रायप्रतीतेस्तदनुसारेण ब्राह्मणत्वाभावेत्यनुक्त्वा शूद्र- त्वाभावेति तदभावपदव्याख्यानेन श्रुतौ ब्राह्मणशब्दो ब्राह्मण यो- ग्यत्रैवर्णिकपर इत्युक्तं भवति । एतद्वाक्यस्य यद्ययमब्राह्मणः शूद्रः स्यात्तर्ह्येतत्सत्यवचनं आर्जववचनं वाङ्मनसयोर्वैरूप्येण वचनं वि- वक्तुं नार्हेदिति विपक्षे तर्कोक्तिरूपतया, योऽब्राह्मणः स एवं वक्तुं नार्हति सत्यवचनहीन इति व्यतिरेकव्याप्त्युक्तिरूपतया वा शूद्रत्वा- भावनिर्णायकत्वम् । हरिद्रुमतोऽपत्यं हारिद्रुमतः गौतमः । तस्य प्रवृ- त्तेरिति । अस्य न तदभाव इति अध्याहृतपदेनान्वयः । तथा चेत्थं महावाक्ययोजना—सत्यकामस्य नाहमेतद्वेदेति सत्यवचनेन नै- तदब्राह्मणो विवक्तुमर्हतीति व्यतिरेकव्याप्तिज्ञानेन बाधकतर्केण च शूद्रत्वाभावनिर्धारणे सत्येव तमनुमायैव तस्य सत्यकामस्योपनयन- संस्कारे 'हारिद्रुमतस्य' गौतमस्य 'प्रवृत्तेः' प्रवृत्तत्वात् न शूद्रस्य तदभावः संस्कारनिषेधाभाव इति । चो हेतुसमुच्चये । अनेन—सूत्रे तदिति व्यस्तं लुप्तविभक्तिकं पदं समस्तं च तन्त्रेणोपात्तम् । चश- ब्दोऽवधारणे भिन्न क्रमेण, न केवलं शूद्रस्य संस्काराभावः श्रुतिमा- त्रात्, किन्तु संस्कारनिषेधज्ञापकलिङ्गाच्चेति समुच्चये च । नेत्यस्ति ।