पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 396, कुल 1267 में से
संदर्भ में पढ़ें[ अधि - १०. सू - २. ] दीपिकासहितम्. ३४९ (८) सू—ॐ ॥ सूक्ष्मं तु तदर्हत्वात् ॥ ॐ ॥ २ ॥ सूक्ष्ममेवाव्यक्तशब्देनोच्यते । तद्ध्यव्यक्ततामर्हति । (९) सूक्ष्मत्वं च मुख्यं तस्यैव । र्हम्, न हि कुत्सनार्हं जडं चिच्छरीरिणो हरेर्मुख्यशरीरं भवति। प्रसि- द्धदेहरूपत्वान्नास्यामुख्यशरीरत्वम् । तथाच यद्यप्यव्यक्तादिशब्दाः परमात्मन्येव मुख्याः, तथापि नैतानुमानिकमप्युच्यतेऽमुख्यतः परमा- त्मसम्बन्धात् । न च साम्यं वैपरीत्यं वा शङ्क्यम् । परमात्मनोऽव्यक्ता- दौ विन्यस्तत्वेन नियामकतया वर्तमानत्वेन तस्य तत्तन्त्रत्वेनोभयोर्मु- ख्यवाच्यत्वस्य विपर्ययस्य वा अयोगात् । न च परमात्मनः शरीररूप- कविन्त्यस्तत्वादौ मानाभावः । यतः 'तुच्छयेन' इति श्रुतिः 'य आत्मनि तिष्ठन्' (माध्यन्दिनश्रुतिः) इत्यादि च तथा 'दर्शयति' प्रतिपादयति अतः । न च परमात्मनोऽव्यक्तादिशब्दवाच्यत्वे सिद्धे भवेत्कथमन्यत्र व्यवहार इति चिन्ता । तदेव कुतः सिद्धमिति वाच्यम् । यतः 'अव्य- क्तमचलम्' (पिप्पलादशाखा.) 'अव्यक्तोऽक्षरः' इति श्रुतिस्मृती तथा दर्शयतः, अतः। न चोभयोर्मुख्यवाच्यत्वे वाक्यभेद इति वाच्यम् । श- रीररूपके विन्यस्तस्य विशिष्टस्य परमात्मनो वाच्यत्वेन गृहीतेरभ्यु- पगमात् । तथा चान्वयभेदाभावान्न वाक्यभेद इति सूत्रार्थ उक्तो भवति ॥ (८) नन्वस्त्वेवं श्रौतस्मार्तप्रयोगबलेनाव्यक्तादिशब्दानां भगव- द्वाचित्वम् । तथाऽपि तत्र तेषां परममुख्यत्वं कुतः ? श्रुतिस्मृतिषु तत्र तत्प्रयोगस्यामुख्यवाच्येऽपि केवलमुख्येऽपि सम्भवादित्याशङ्कां परिह- रत्सूत्रमुपन्यस्यति—सूक्ष्ममिति ॥ अत्र तुशब्दोऽवधारणार्थः । तदि- ति व्यस्तं समासान्तर्गतं च । तत्र व्यस्तमव्यक्तस्वरूपोद्देश्यसमर्पकम् । सूक्ष्ममिति च विधेयाभिधायीत्याशयेन सौत्रं प्रतिज्ञांशं व्याचष्टे—सू- क्ष्ममेवेति । न तु रूढ्या प्रधानमित्येवार्थः । नन्वव्यक्तत्वस्यैवाव्यक्त- शब्दप्रवृत्तिनिमित्तत्वादव्यक्तमेवाव्यक्तशब्देनोच्यत इति वाच्ये कथ- मव्यक्तशब्देन सूक्ष्ममेवेत्युक्तिरित्यतः प्रवृत्तं तदर्हत्वादिति हेत्वंशं व्याचष्टे—तद्धीति । यस्मात्तत्सूक्ष्मं परमाण्वाकाशादिरूपं वस्तु अ- व्यक्ततां न व्यज्यत इति व्युत्पत्त्याऽव्यक्तशब्दप्रवृत्तिनिमित्तमव्यक्त- त्वं प्राप्तुं 'अर्हति' योग्यं भवति । तस्माद्यदव्यक्तशब्देनोच्यते, त- त्सूक्ष्ममेवेति युक्तमुक्तमित्यर्थः ॥ (९) अस्तु सूक्ष्ममेवाव्यक्ततार्हत्वादव्यक्तशब्दवाच्यम् । तथाऽ