भारतकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 412, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 412

[ अधि - ३. सू - १२. ] दीपिकासाहितम्. ३६५ 'यस्मिन् पञ्चपञ्चजना आकाशश्च प्रतिष्ठितः' (बृ. ६-४-१७.) इत्यादिषु बहुसङ्ख्योपसङ्ग्रहेऽपि न विरोधः। (२) तस्यैवाकाशादिषु नानाभावात्तदतिरिक्तस्वरूप व्याख्यातं भवति। न केवलं सङ्ख्योपसङ्ग्रहात्, किन्तु एकस्मिन्ननुपप द्यमानस्य 'यस्मिन्' इत्याद्याधाराधेयभावस्य वचनादपीति समुच्चया र्थोऽपिशब्दः पूर्वसूत्राद्बुद्ध्या विवेकेन विरोधपदाकर्षकोऽपि भवती त्याशयेन—विरोध इत्याह। अनेन तस्येत्याकृष्यते। नेति शेषः। तथा च 'यस्मिन्' इत्यादौ बहुत्वआधारत्वादेः श्रवणात् यः तेन तस्य भग वतः पञ्चजनाकाशशब्दवाच्यत्वस्य 'विरोधः' अनुपपत्तिः स नेति योजना। अनेनापि पूर्वपक्षे युक्तिद्वयानुवादात्पञ्चजनादिशब्दवा च्या अन्ये षष्ठीनिर्दिष्टा एव, न द्वितीयानिर्दिष्टो विष्णुरिति सयुक्ति कपूर्वपक्षो दर्शितः। तस्य पञ्चजनादिशब्दवाच्यस्य 'न विरोधो' ना नुपपत्तिरित्यनेन सिद्धान्तप्रतिज्ञा च सूचिता॥ (२) कुतो न विरोध इत्यतः प्रवृत्तं सौत्रं नानाभावादिति हेतुं व्याचष्टे—तस्यैवेति॥ एकस्यैवेत्यर्थः। परस्येति वर्तते। एवकारोऽप्य र्थकः। अनेन अपिः यद्यपीत्याद्यर्थतयाऽपि व्याख्येय इति सूचितम्। त था च तस्यैकस्य स्वगतभेदशून्यस्यापि परस्य भगवतो 'नानाभावा त्' प्रतिशरीरं नानारूपत्वादित्यर्थः। तथा च रूपबाहुल्याद्बहुवचनोप पत्तिरिति भावः। न च प्रतिशरीरं परमात्मनो बहुरूपत्वमप्रामाणिक मित्याह—आकाशादिष्विति। नियामकत्वेनेति शेषः। नानाभावादि त्यत्रापि सम्बध्यते। तथा च तत्तच्छरीरान्तर्गतेषु आकाशप्राणादिप ञ्चजनेषु नियम्येषु नियामकत्वेन स्थितस्य भगवतो नानाभावस्य न्या यप्राप्तत्वादित्यर्थः। अनेनैकस्मिन् बहुत्वसङ्ख्यानुपपत्तिः परिहृता। अथ 'यस्मिन्' इत्याधारस्य विष्णुत्वात्पञ्चजनानां आधेयानामवि ष्णुत्वमित्याशङ्कां परिहर्तुं प्रवृत्तं अतिरेकाच्चेत्यंशं व्याख्याति—तदि ति। 'तस्य' आधारभूतस्य शरीरनियामकभगवद्रूपस्य 'तेभ्यः' आ धेयभूताकाशादिगतपञ्चरूपेभ्यः 'अतिरिक्तत्वात्' अधिकत्वात् पृथक्त्वा च्चेत्यर्थः। तच्छब्दासाहित्येन अतिरिक्तस्वरूपत्वाच्चेति पाठे तस्येत्यनुष ङ्गेन तस्य तादृशस्वरूपत्वादित्यर्थः। तथाच विष्णोरेकत्वेऽप्याधेयसङ्ख्या धिकशरीरनियामकेश्वररूपाश्रिताकाशप्राणादौ भगवतोऽवस्थिति