पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 452, कुल 1267 में से
संदर्भ में पढ़ें[ अधि - २. सू - ४. ] दीपिकासहितम्. ४०५ ( ३ ) 'न चक्षुर्न श्रोत्रं न तर्को न स्मृतिर्वेदा ह्येवैनं वेदय- न्ति' इति भालवेयश्रुतेश्च । ( ४ ) नित्यत्वं च शब्दादेव प्रतीयते 'वाचा विरूप नित्यया' रणप्रामाण्योपलब्धौ न तत्र संवादापेक्षेत्यत्रैव तापर्येण करणस्वरूप- ग्राहकेणैव तत्प्रामाण्यग्रह इत्यत्र तात्पर्याभावात् । यद्वा—अन्यत्र श- क्तिशक्तिमतोर्भेदमभ्युपेत्य स्वरूपग्राहकाग्राह्यत्वरूपपरतस्त्वोक्तावपि इहाभेदमभ्युपेत्य स्वरूपग्राहकस्यैव ज्ञानजनकशक्तिग्राहकत्वं त- स्यैव च प्रमाजनकशक्तिरूपप्रामाण्यग्राहकत्वमिति भावेन संवादनिर- पेक्षस्वरूपग्राहकग्राह्यत्वरूपस्वतस्त्वस्योक्तवान्न विरोधः । प्रामा- ण्यं संवादाधीनज्ञानविषय एव किं न स्यादित्यतः तत्रास्य तथात्वं प्रा- माण्यस्य स्वतस्त्वं चान्यथानवस्थानात्सिद्ध्यतीति योजनाश्रयेण वि- पक्षे बाधकतर्करूपां शब्दाच्चेत्यप्यन्वितचशब्देन सूचितां युक्तिमाह— अन्यथेति । प्रामाण्यस्य स्वतस्त्वानङ्गीकारे संवादसापेक्षेणैव स्वरूप- ग्राहकेण ग्राह्यत्वाङ्गीकार इत्यर्थः । अनवस्थितेरिति । फलोपलब्धिरू- पसंवादजनकनिष्ठप्रामाण्यमपि स्वत एव चेत् परम्पराकल्पनावैय- र्थ्यात्, संवादान्तरेणैव ग्राह्यं चेदनवस्थाप्रसङ्गादित्यर्थः ॥ ( ३ ) अस्य वेदस्य स्वतः प्रामाण्यं च शब्दादित्यन्वयेन वेदस्य स्वतः प्रामाण्ये सूत्रसूचितां श्रुतिं चाह—नेति ॥ 'चक्षुः' अज्ञचक्षुः। एवमज्ञश्रोत्रं 'तर्कः' शुष्कानुमानं 'स्मृतिः' वेदानुकूला । एनमि- ति सर्वत्र सम्बध्यते । 'वेदयन्ति' ज्ञापयन्तीत्येतदेष्वपि विपरिणामे- नान्वेति । तर्हि किमेतं ज्ञापयतीत्यत आह—वेदा इति ॥ ऋग्यजुस्सा- माथर्वाश्चेत्यादिनोक्ता वेदा एवैनं परमात्मानं स्वतो वेदयन्ति । हि य- तः वेदयन्त्यतो वेदा इत्युच्यन्ते इत्यर्थः । प्रसिद्धौ हिशब्दः। नेत्यादिना एवशब्दो विवृतः। श्रुतेरित्यस्य स्वतः प्रामाण्यं चेति पूर्वेणान्वयः। सा- धकबाधकसमच्चये चशब्दः । अत्र चक्षुरादीनां परमात्मप्रमापकत्व- मुक्त्वा वेदस्यैव तत्प्रमापकत्वोक्तेः संवादानपेक्षतया स्वतः एव प्रामा- ण्यमित्युक्तं भवति संवादरूपज्ञानस्य चक्षुरादिनैवोत्पाद्यत्वात् ॥ ( ४ ) यद्वेदस्य नित्यत्वाख्यं वैलक्षण्यमुक्तं तस्यासिद्धिमाशङ्क्य तदुत्तरत्वेनापि शब्दादित्यंशं योजयति—नित्यत्वं चेति ॥ अनेन हेता- वप्यन्वितस्य तथात्वमित्यस्य नित्यत्वमित्यर्थान्तरमुक्तं भवति । अस्य श्रुतिवाक्यस्येति वर्तते । चस्त्वर्थः । कोऽसौ शब्द इत्यतस्तमाह—