भारतकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 488, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 488

[ अधि - ६. सू - १८. ] दीपिकासहितम्. ४४१ इत्यादिश्रुतिस्मृतिभ्यः । (१९) परस्परविरुद्धे तु वाक्यानां यत्र युक्तता । तथैवार्थः परिज्ञेयो नावाक्या युक्तिरिष्यते ॥ इति बृहत्संहितायाम् ॥ 'जेता' प्राप्ता, तथाऽपि तेभ्यः स्पार्हं वसु यज्ञादिफलं दाताऽपि प- रमेश्वरः इन्द्रादिनामा 'यत' 'विश्वं' 'चिकेत' चकार । कित करणे । तत् 'सत्यमित्' सत्यमेव, न मिथ्या । कुतो ? यतः तत् 'न मोघं' अर्थक्रियाद्यनुपयुक्तं न भवतीत्यर्थः । यद्वा-'स्पार्हं' स्पृहणीयं 'वसु' स्व- र्गभूम्यादिकं बल्यादिभ्यो जेता इन्द्रादिभ्यो दाताऽपीत्यर्थः । आदिपदेन 'कविर्मनीषी परिभूः स्वयम्भूर्याथातथ्यतोऽर्थान् व्यदधाच्छा- श्वतीभ्यस्समाभ्यः' ( ईशा.८.) । इतीशावास्यवाक्यम्, । विश्वं सत्यं मघवाना युवोरिदापश्चन प्रमिनन्ति व्रतं वाम् । प्रधन्वस्य महतो महानि सत्यासत्यस्य करणानि वोचम् ॥ ( ऋ. २ - २४ - १२. ) इति ऋग्वेदवाक्यं च गृह्यते, अन्यानि च । 'कविः' सर्वज्ञः 'मनी- षी' ब्रह्मादिसर्वमनसामीशिता प्रेरकः णिनिप्रत्ययान्तोऽयं शब्दः । प- रिभवति सर्वानिति 'परिभू' सर्वोत्तमः परमनपेक्ष्य स्वयमेव भव- तीति 'स्वयम्भूः' अनन्याश्रयः स्वतन्त्रः परमेश्वरः 'अर्थान्' महदा- दीन् 'शाश्वतीभ्यः समाभ्यः' सप्तम्यर्थे पञ्चमी सर्वेष्वपि कालेषु 'याथातथ्यतः' तथाभावमनतिक्रान्तं यथातथं तस्य भावो याथा- तथ्यं ततो याथातथ्येनैव अबाधिततयैव सत्यानेव 'व्यदधात्' निर्मित- वानित्यर्थः । निर्माणशक्तिप्रदर्शनाय कविरित्यादि । हे मघवानौ यश- स्विनौ धनवन्तौ चेन्द्राबृहस्पती 'युवोः' युवयोरधीनं विश्वं 'सत्यमि- त्' सत्यमेव । कुतः ? 'वां' युवयोः सत्यजगत्स्र्जनादिरूपं 'व्रतं' कर्म 'आपश्चन' सर्वदेवता अपि 'प्रमिनन्ति' जानन्ति यतः, न के- वलमहमेव प्रतिपन्न इति मन्त्रद्रष्टा द्विरूपमिन्द्रबृहस्पतिशब्दवाच्यं प- रमेश्वरं प्रत्याह ॥ ( १९) ननु न जीवो ब्रह्मणो भिद्यते चेतनत्वात्, ब्रह्मवत, प्रपञ्चो वा बाध्यो दृश्यत्वाच्छुक्तिरजतवदित्यादियुक्तिसद्भावात्कथमन्यत्र प्र- माणाभाव इत्यत आह—परस्परेति ॥ तुरेवार्थोऽप्यर्थः । तथा च वा- क्यानां परस्परं विरोधे सत्येव 'यत्र' यस्मिन्नर्थे 'तथैव युक्तता' ए- ५६