पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
DevanagariHindipublished1,267 पृष्ठ
पृष्ठ 498, कुल 1267 में से
संदर्भ में पढ़ेंपृष्ठ 498
( ७) अन्नं रसादिरूपेण प्राणः परिणयत्यसौ । इति वचनात् । एवं जीवे दृश्यमानोऽपि कार्योपसंहा- रोऽस्वातन्त्र्यात्परकृत एव । ( ८) य आत्मानमन्तरोऽयमयति । नाहं कर्ता न कर्ता त्वं कर्ता यस्तु सदा प्रभुः । इत्यादेः॥२५॥ ( ९) सू—ॐ ॥ देवादिवदपि लोके ॥ ॐ ॥ २६ ॥ न च कर्तुरीश्वरस्यादृष्टिविरोधः । देवादिवददृश्य- ह्येवकारार्थः ॥ (७) कुतः प्राणाधारत्वं क्षीरस्येत्यतो हीति सूचितां स्मृतिं दर्श- यति—अन्नमिति ॥ भुक्तं वस्त्वित्यर्थः । 'असौ' सर्वशरीरप्रेरकत्वेन प्रसिद्धः । क्षीरवदित्यनेन लब्धं दार्ष्टान्तिकं दर्शयति—एवमिति । दृ- श्यमान इति । स्वेनानुभूयमानोऽन्यैर्दृश्यमानश्च कार्योपसंहारः 'परमे- श्वरकृतः' तन्नि