पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 504, कुल 1267 में से
संदर्भ में पढ़ें[ अधि- ८. सू- २८. ] दीपिकासहितम्. ४५७ ( ३ ) यद्वाक्योक्तं न तद्युक्तिर्विरोद्धुं शक्नुयात्क्वचित् । विरोधे वाक्ययोः कापि किञ्चित्त्साहाय्यकारणम् ॥ ऽपीत्युक्तं भवति । ईश्वरे जीववच्छब्दमूलत्वाख्यो विशेषोऽसिद्ध इत्य- तोऽप्याह—शब्दमूलत्वादिति । शब्दमूलत्वस्य ‘ नावेदवित् ’ इत्यादि- शब्दमूलत्वादित्यर्थः । यद्वा—श्रुतेरित्यस्यावृत्त्याऽत्र सम्बन्धः । तथा च शब्दमूलत्वस्य श्रुतेरित्यर्थः । अस्त्वीश्वरेऽयं विशेषः, ततः किमि- त्यतस्तथा च नेश्वरे युक्तिविरोधोऽवतरतीत्याह—नेति । तत्रेति शे- षः । तथा च ‘ तत्र ’ परमेश्वरे न जीव इव कृत्स्नप्रसक्त्यादिकेवलयु- क्तिविरोधोऽवतरतीत्यर्थः । युक्त्यविषयत्वात्, यथा प्रत्यक्षाविषये प्र- त्यक्षविरोध इति भावः । यद्यपि न विरोध इति प्रागुक्तत्त्वादिह पुनर्न वाच्यम्, तेनैवास्याप्यन्वयसम्भवात् । तथाऽपि तत्र लोके विरुद्धानां परमेश्वरे विरोधो नास्ति, तथा श्रुतेरित्युकम् । अत्र तु युक्तिविरोधो नास्ति, तत्परिहारोपायस्य शब्दमूलत्वाख्यस्य विशेषस्य सत्त्वादित्यु- च्यते, अतो नावक्तव्यता । अतएव तत्र विरोध इत्येवोक्तम्, अत्र तु युक्तिविरोध इति ज्ञातव्यम् । अनेन—ईश्वरकर्तृत्वपक्षे कृत्स्नप्रसक्त्या- दियुक्तिविरोधः न, कुतो ? ‘ योऽसौ ’ इति निर्दोषभूतावेव परमेश्वरे लोकविरुद्धस्यापि भिन्नांशरहितस्याप्येकदेशेन प्रवृत्तिरूपस्य स्वरू- पांशस्य बाहुल्येऽपि भेदाभावस्यांशतः कार्यकारणेऽपि निरवयवत्व- स्य प्राकृतदेहादिरहितत्वेऽपि कर्तृत्वस्याविरुद्धतयाऽवस्थानोक्ते- र्न जीवपक्ष इव सम्भावितदोषः प्रत्यक्षासिद्धत्वात् । श्रुत्युक्तमपि विरुद्धधर्मजातं युक्तिविरुद्धत्वात्कथमीशेऽङ्गीकर्तुं शक्यम्, अन्यथा जीवेऽपि प्रत्यक्षबलादङ्गीकार्यं स्यादविशेषादिति चेत्—न अत्र ‘ श- ब्दमूलत्वात् ’ युक्तिविरोधपरिहारोपयोगिनः शब्दमूलत्वस्य शब्दैक- समधिगम्यत्वस्यात्र परमेश्वरे सत्त्वादविशेषासिद्धेः । न च तदसि- द्धिः तस्य शब्दमूलत्वस्य ‘ शब्दमूलत्वात् ’ ‘ नावेदवित् ’ इत्यादिश- ब्दसिद्धत्वादिति सूत्रार्थ उक्तो भवति ॥ ( ३ ) न केवलं शब्दैकसमधिगम्यत्वेन युक्त्यविषयत्वादीश्वरे यु- क्तिविरोधाप्रसक्तिः किन्तु शब्दैकसमधिगम्ये युक्तिविरोधो नास्तीति स्मृत्युक्तत्वाच्चेत्याह—यदिति ॥ ‘ युक्तिः ’ शुष्कानुमा ‘ वाक्योक्तं ’ आगमेनोक्तं ‘ यत् ’ प्रमेयम् न तत् ‘ विरोद्धुं ’ निषेद्धुं शक्नुयादित्यर्थः किं तर्ह्यस्याः कृत्यमित्यत आह—विरोध इति । ‘क्वापि ’ क्वचिद्विष- ५८