पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 513, कुल 1267 में से
संदर्भ में पढ़ें४६६ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - १. ] ला, न तु प्रयोजनापेक्षया, एवमेवेश्वरस्य । ( ४ ) नारायणसंहितायां च— सृष्ट्यादिकं हरिर्नैव प्रयोजनमपेक्ष्य तु । कुरुते केवलानन्दाद्यथा मत्तस्य नर्तनम् ॥ पूर्णानन्दस्य तस्येह प्रयोजनमतिः कुतः । मुक्ता अप्याप्तकामाः स्युः किमु तस्याखिलात्मनः ॥ इति॥ चारो दुरुद्धर इति भावः । प्रथमसूत्रार्थस्तु—नेश्वरप्रवृत्तिरन्येषामिव स्वप्रयोजनार्था । कुतः? प्रयोजनवत्त्वेन कृतकृत्यत्वेन प्रयोजनवत्त्वात् । यदर्थमीश्वरस्य प्रवृत्तिस्तस्य प्रयोजनस्याप्तकामत्वेन प्रागेव सिद्धत्वा त् । यद्वा—ईश्वरप्रवृत्तेर्दयालुपृवृत्ताविव परप्रयोजनवत्त्वात् । अथ वा— नेश्वरप्रवृत्तिः स्वप्रयोजनार्था, नप्रयोजनवत्त्वात् । नसमासोऽयम् । व्याख्यानादिकाले हस्तचालनादाविव सुखोद्रेकाद्गानादाविव च प्रयो जनवत्त्वराहित्यादिति चन्द्रिकायामुक्तः । द्वितीयसूत्रे—लोकवच्चि ति तुशब्दोऽवधारणे, पक्षान्तराङ्गीकारसूचकः, किं त्वित्यर्थे च । ली लाकैवल्यमिति समस्तपदं स्वरूपार्थोऽयं कैवल्यशब्दः । ईश्वरस्य प्रवृ त्तिरिति शेषः । तथा च नेश्वरस्य प्रयोजनोद्देशेन प्रवृत्तिः किन्तु ‘लो कवत् ’ यथा लोके मत्तस्य सुखोद्रेकादेव प्रवृत्तिः तस्याश्च लीलाकैव ल्यं तथा परमेश्वरस्य तन्निमित्तप्रवृत्तेरपि ‘ लीलाकैवल्यं ’ केवलली लात्वं लीलारूपत्वमेव न तु प्रयोजनान्तरार्थत्वं न वा लीलार्थत्वं अतः प्रयोजनानुद्देशे तस्य कीदृशी प्रवृत्तिरिति प्रश्नाववकाश इति सूत्र र्थः । न चैवमाद्यसूत्रार्थे वाण्वपि प्रयोजनमीश्वरस्येति तत्त्वप्रदीपवि रोधः, अत्र प्रयोजनसामान्यनिषेधादिति वाच्यम् । तस्य लोकानुग्र हाय सृष्ट्यादिक्रियां करोतीति टीकानुसारादण्वपि स्वप्रयोजनं ना स्तीति व्याख्यातव्यत्वात् । अत एव भारततात्पर्यनिर्णये ‘ भूत्यै नि जाश्रितजनस्य ’ इति परप्रयोजनोक्तिः ॥ ( ४ ) अत्रैवार्थे स्मृतिमाह—नारायणेति ॥ हरिः सृष्ट्यादिकं न स्वप्रयोजनं ‘अपेक्ष्य’ उद्दिश्य कुरुते, किन्तु ‘केवलानन्दात्’ स्वरूपान न्दादेरेव कुरुत इति योजना । अत्र दृष्टान्तमाह—यथेति । प्रथमार्थे म त्तस्येति षष्ठी । तथा च यथा मत्तस्स्वानन्दादेव कुरुते तथेत्यर्थः । कुत एवं कल्प्यत इत्यत आह—पूर्णेति । ‘तस्य’ हरेः ‘इह ’ सृष्ट्या