पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 520, कुल 1267 में से
संदर्भ में पढ़ें[ अधि - ११. सू - ३८. ] दीपिकासहितम्. ४७३ ( ९) स कारयेत्पुण्यमथापि पापं न तावता दोषवानीशिताऽपि। ईशो यतो गुणदोषादिसत्त्वे स्वयं परोऽनादिरादिः प्र [ जानाम् ॥ इति चतुर्वेदशिखायाम् ॥ ३७ ॥ ११. अधिकरणम् ॥ ( १ ) अवशिष्टैरुपसंहरति- ( ९ ) काऽसौ श्रुतिरित्थतस्तामुदाहरति-स कारयेदिति ॥ चतु वेदशिखायामित्यस्य उपलभ्यमानत्वादित्यनेनान्वयः । श्रुतौ स इत्य स्योत्तरत्राप्यधिकारसूचकोऽथशब्दः । अपिशब्दौ समुच्चयार्थी । तथा च ‘सः’ विष्णुः स्वाधीनपूर्वकर्मापेक्षया पुण्यं कर्म जीवेन कारयेत् पापं कर्म च कारयेत् । एवं तस्य कर्मणः ‘ईशिता’ नियन्ताऽपि स एव । तावता न वैषम्यादिदोषवानित्यर्थः । तत्त्वप्रदीपे तु-स भगवा न् स्वयमीशिताऽपि पुण्यस्य शोभनमेव फलं पापस्य तद्विपरीतमित्ये तदन्यथा कर्तुं समर्थोऽपि न तथा करोति, किन्तु पुण्यं पुण्यैः कारये त् पापं पापैरथ मिश्रकर्माण्यपि विमिश्रैः कारयेन्नैतावता वैषम्यादि दोषवान् । कुतो ? यतः ‘परः’ स्वतन्त्रः स परमात्मा ‘गुणदोषादि सत्त्वे’ अन्येषु गुणदोषसम्बन्धापादने गुणदोषादीनां गुणदोषत्वापा दने च स्वयमेवेशः अतः । किञ्चायं न सकर्तृकः, येन पराधीनतया दोषसम्भवः, अतो न तस्य दोष इत्याह-‘अनादिः’ उत्पादकशून्य इति । इतोऽपि न दोषसम्भव इत्याह-आदिः प्रजानामिति । प्रजोप लक्षितसर्वकर्तेत्यर्थः । न च कस्यापि स्वदोषेच्छा भवति, किमु सर्व कर्तुरतो न दोषवान्, किन्तु परमेश्वरः स्वातन्त्र्यात् सर्वगुणगणपरि पूर्ण एव स्वाभाविकीं स्वीयां स्थितमनपोह्य त्रिविधान् धर्मान् त्रिवि धैः कारयतीत्यभ्युपगमे श्रुत्याद्यनुग्रहश्चोपपद्यते । वक्ष्यन्ते च नियमा स्तद्रूपाभावाः । तत्रोपपद्यते चैवंनियमवत्त्वं स्वतन्त्रस्य । उपलभ्यते चैवं स्वभावत्त्वं ‘देवस्य’ (मां. २-९.) इति श्रुतौ, इति श्रुतिर्व्या ख्याता। अनेनोपपद्यते उपलभ्यत इत्यनयोरसकृदावृत्तिस्सूचिता॥१०॥ ॥ इति वैषम्यनैर्घृण्याधिकरणम् ॥ ११. अधिकरणम् ( १ ) अत्राधिकरणे विष्णोः सर्वगुणपूर्तौ सर्वदोषराहित्ये च युक्त्य ६०