पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 526, कुल 1267 में से
संदर्भ में पढ़ें[ अधि - १. सू - ४. ] दीपिकासहितम्. ४७९ मनु' (बृ. ५-८-९.) 'एतेन ह वाव पयो मण्डं भवति' ( ) इत्यादि तत्रापीश्वरनिमित्तप्रवृत्तिश्रुतेः ॥३॥ (७) सू—ॐ ॥ व्यतिरेकानवस्थितेश्चानपेक्षत्वात् ॥ ॐ ॥ ४ ॥ 'न ऋते त्वत्क्रियते किञ्चनारे' (ऋ. १०-११२-९.) इति नायाभिहिते पयोऽम्ब्वादौ स्वतःप्रवृत्त्यभावरूपप्रथमसाध्यस्याभावो दर्शितः । अचेतनस्येत्यनेन हेतुरपि । तथा चाचेतनत्वहेतोः स्वेनैव सत्प्रतिपक्षिक्षतत्वात्पयोऽम्ब्वादौ व्यभिचारित्वाच्च न साधकत्वमिति भा वः । सौत्रापिपदं नञस्समाकर्षकमिति भावेनाह — नेति । इत्यादी त्यविभक्तिको निर्देशः । इत्यादावित्यर्थः । 'तत्रापि' पयोऽम्ब्वादावपि न केवलं प्रधान इत्यपिशब्दार्थः । सौत्रापिशब्दः ईश्वराख्यचेतनाधीन प्रवृत्तेराकर्षकश्चेति भावेनाह — ईश्वरनिमित्तेति । पूर्वसूत्राध्याहृतस्य दर्शनादित्यस्य इहानुवृत्तिः कार्येतिभावेन तदर्थमाह—श्रुतेरिति । त थाच पूर्ववाद्युक्तप्रत्यनुमानदृष्टान्ते पयोऽम्ब्वादौ सिद्धान्त्यभिमतसाध्य स्यैव सत्त्वान्न तदनुमानस्य सत्प्रतिपक्षता न वा व्यभिचार इति भा वः । श्रुतेः प्राबल्यात्तत्क्रमानुसारेण सौत्रक्रमातिक्रमः कृतः। अन्यथा ए तेनेति वाक्यमादावुदाहरेत् । बृहदारण्यके एतस्यवेत्येकं वाक्यम् । ए तेनेत्यन्यत्तत्रैव । तदर्थस्तु—याः अन्याः विलक्षणाः काश्चित्प्राच्यः प्राच्यां दिशि स्थिताः याश्चान्याः काश्चित्प्रतीच्यः प्रतीच्यां दिशि स्थिताः नद्यः श्वेतेभ्यः तन्नामकपर्वतेभ्यः । बहुवचनमाद्यर्थे । सकाशा दिति शेषः । यां यां दिशमनुस्यन्दन्ते स्रवन्ते ताः नद्यः एतस्याक्षर स्य भगवदाख्यस्य प्रशासने । निमित्तसप्तमीयम् । आज्ञामात्रान्तां तां दिशमनुस्यन्दन्ते । एतेन भगवता पयः क्षीरं मण्डं दधि भवति तद्रू पं भवति । यद्वा—मण्डं दधिभावं भवति प्राप्नोति दध्युपादानं भवती ति वेति ॥ (७) ननु श्रुतिसामर्थ्येन पयोऽम्बुनोः प्रवृत्तेरीश्वराधीनतया तत्र व्यभिचाराभावेपि अयस्कान्तशिलादिरूपाचेतनान्तरस्य प्रवृत्तौ सि द्धायां भविष्यति तत्र व्यभिचारः सेत्स्यति च प्रधानस्य स्वतः प्रवृ त्तौ साध्यायामयस्कान्तादिकमेव निदर्शनं उदाहरणनियमस्यान्याश्रय णीयत्वादित्याशङ्कां परिहरत्सूत्रमुपन्यस्य व्याचष्टे—व्यतिरेकेति ॥ इ र्त्यनन्तरं श्रुत्येति अनवस्थितेरित्यनन्तरं सिद्धत्वादिति च शेषः । यद्वा—इत्यनवस्थितेरसत्त्वश्रुतेरित्यर्थः । तद्व्यतिरेकेणेत्यनेनापि पदेन