पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 529, कुल 1267 में से
संदर्भ में पढ़ें४८२ ब्रह्मसूत्रभाष्यम्. [ अध्या - २, पा - २, ] सू—ॐ ॥ अन्यत्राभावाच्च न तृणादिवत् ॥ ॐ ॥ ५ ॥ ( ३ ) ‘यच्च किञ्चिज्जगत्सर्वं दृश्यते श्रूयतेऽपि वा । अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणस्थितः ॥ ब्रह्मण्येवेदमाविरासीद्ब्रह्मणि स्थितं ब्रह्मणि लयमध्यु पैति ब्रह्मैवाधस्ताद्ब्रह्मैवोपरिष्टाद्ब्रह्म मध्यतो ब्रह्म सर्व तः’ ‘ब्रह्मैवेदं सर्वम्’ ( बृ.४-५-१० ) इत्यादिश्रुतिभ्योऽ न्यत्र जगतोऽभावात्तृणादीनां पर्जन्यवन्नानुग्राहक त्वमात्रमीश्वरस्य । ( ४ ) स एव भूयो निजवीर्यचोदितां स्वजीवमय्यां प्रकृतिं णमेतत् । तथा च इत्यादिश्रुतिभ्योऽन्यत्र जगतोऽभावावगमादित्यन्व यः । तृणादिवदिति । तृणादीनामुत्पत्तौ यथा पर्जन्योऽनुग्राहक एव, न स्वतन्त्रोत्पादकः, तथा जगदुत्पत्तावीश्वरस्यानुग्राहकत्वमात्रं न, किन्तु स्वातन्त्र्येण तदुत्पादकत्वमेवेत्यर्थः ॥ ( ३ ) यच्चेति तैत्तिरीयवाक्यम् । ब्रह्मण्येवेत्यादीनि श्रुत्यन्तरवा क्यानि। आद्यश्रुतावपिशब्दः क्रियासमुच्चये कर्मसमुच्चये वा । वाशब्दो ऽनादरे । तथा च नारायणो यत्किञ्चिद्दृश्यते यच्च श्रूयते वा तत्सर्वमपि जगत्सर्वं सर्वपदार्थानां सत्तादिकं प्रति तत्प्रदानाय व्याप्य । यद्वा-त दुद्दिश्य सर्वै सर्वथा देशकालगुणशक्तिभिर्व्याप्य तत्प्रेरकतया स्थितः। न केवलमेतावत, किन्तुजगतोऽन्तर्बहिश्च तद्देशे तद्रहितदेशे च त त्काले तद्रहितकाले व्याप्य तद्भूतैस्तदभूतैश्च गुणैः शक्तिभिश्च युक्त स्सन् श्रुत इति तत्त्वप्रदीपटीकादिशा श्रुत्यर्थः । द्वितीयश्रुतावाद्यो ब्र ह्मशब्दो निमित्तसप्तम्यन्तः। द्वितीयतृतीयावधिकरणसप्तम्यन्तौ। 'इदं' जगत्'आविरासीत्'अजायत। अनेनेशाधीनोत्पत्तिसत्तादिकमुक्तम्। ब्र ह्मैवाधस्तादित्यनेनापि सत्ताप्रदानाय सर्वगतत्वमुच्यते । तदधीनसत्ता कस्य तदधीनत्वं सिद्धमेव । ब्रह्मैव सर्वपदार्थानामधस्तादुपरिष्टान्म ध्यतः । किं बहुना-'सर्वतः' सर्वत्र च तत्तत्सत्तादिप्रदानाय तत्र तत्रा स्तीत्यर्थः । ब्रह्मैवेदमितिवाक्यान्तरेणापि इदं जगत् तदधीनसत्ताकमे वोच्यते ॥ ( ४ ) इदानीं सप्रमाणकं सौत्रचशब्दार्थमाह—स एवेति ॥ अत्र स एवेत्यनेन ईश्वराधीनोद्बोधकत्वं प्रकृतेरुच्यते।'शास्तिकृत्'जगच्छिक्षकः