पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 553, कुल 1267 में से
संदर्भ में पढ़ें५०६ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - २. ] ( ११ ) सू—ॐ ॥ आकाशे चाविशेषात् ॥ ॐ ॥ २४ ॥ दीपादिषु विशेषदर्शनात् क्षणिकत्वेनान्यत्रापि क्ष णिकत्वमनुमीयते चेदाकाशादिष्वविशेषदर्शनादन्य त्रापि तदनुमीयेत ॥ २४ ॥ प्रतिज्ञासमुच्चायकत्वं च अभिप्रेति ॥ ( ११ ) ननु माभूदर्थापत्त्या क्षणिकत्वसिद्धिः । तथाऽपि विमतं क्षणि कं, सत्त्वात्, यत्सन्न तत् क्षणिकम्, यथा दीपादि, सन्तश्चामी भावाः पदार्था इत्यनुमानेन सेत्स्यति । न च दृष्टान्ते साध्यवैकल्यम् । यद्वि रुद्धधर्माधिकरणं तन्नानेति व्याप्तेः । पूर्वोत्तरक्षणयोः प्रदीपे परिमाण विशेषदर्शनेन वस्तुभेदस्याप्यावश्यकत्वात्तत एव क्षणिकतासिद्धेरि त्याशङ्कां परिहरत्सूत्रमुपन्यस्य व्याचष्टे—आकाशे चेति ॥ दीपादि ष्विति वायुक्तानुमानदृ