पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 557, कुल 1267 में से
संदर्भ में पढ़ें५१० ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - २. ] ( ३ ) चशब्दान्न चेदन्यत्रापि न स्यात् अविशेषात् ॥ २७ ॥ ( ४ ) सू—ॐ ॥ नाभाव उपलब्धेः ॥ ॐ ॥ २८ ॥ न च जगदेव शून्यमिति वाच्यम् । दृष्टत्वात् ॥ २८ ॥ ( ५ ) सू—ॐ॥वैधर्म्याच्च न स्वप्नादिवत् ॥ ॐ ॥ २९ ॥ ( ३ ) खपुष्पादीनामकारणत्वेऽपि को दोष इत्यतस्तत्र स्वाभिमता सिद्धिरूप दोषोक्तिपरतया सौत्रचशब्दं व्याचष्टे—चशब्दादिति ॥ अस्याविशेषादित्यनन्तरं अध्याहारेण इतिसूचितमित्यनेनान्वयः । किं सूचितमित्यतस्तदाह—न चेदिति । खपुष्पादीनामपि सकाशात्कार्य सिद्धिर्नास्ति चेदित्यर्थः । 'अन्यत्र' अन्यतः खपुष्पाद्यन्यबौद्धाभिमतशू- न्यात् 'अपि' जगदाख्यकार्योत्पत्तिः 'न स्यात्' इत्यर्थः । ननु शू- न्यस्य कारणत्वे खपुष्पादिकारणत्वापादनमसङ्गतं हेत्वभावादित्यत आह—अविशेषादिति । शून्यस्य खपुष्पादेश्चासत्त्वाविशेषादित्यर्थः । तथा च सर्वधर्मविकलत्वरूपासत्त्वं हेतुः । अत्र दृष्टान्तस्तु शून्यमेवे- ति भावः । अनेन तर्कस्य विपर्ययपर्यवसानेन प्रकृतोपयोग उक्तो भ- वति ॥ ( ४ ) भवेदेतद्दूषणं यदि शून्यतत्त्वात्परमार्थतो मृत्पिण्डाद्घट इव जगदुत्पद्येत । नैतदस्ति । शून्यस्य जगदाकारेण परिणामानभ्युपगमा- त् । किन्तु संवृतिशब्दिताज्ञानविशेषादसतो रजताकारेणेव शून्यस्या- पि जगदाकारेण अवभासाख्यविवर्तत्वाभ्युपगादित्याशङ्कां परिहर- त्सूत्रमुपन्यस्य व्याचष्टे-नेति ॥ एवकारो भिन्नक्रमः । तथा च 'शून्य- मेव' शून्यरूपमसदेव 'जगत्' जगदाकारेणावभाति न परमार्थतो जगद- स्तीति न वाच्यमित्यर्थः । न केवलमेतावत् , किन्त्वदृष्टिदोषपरिहारा- य यदसदेव रजताकारेणावभातीति वचनं तदपि न युक्तमिति चश- ब्दार्थः । अनेन सौत्राभावशब्दो भवतीति भावः सन्, न भावोऽभाव इति व्युत्पत्त्या असत्पर इत्युक्तं भवति। 'दृष्टत्वात्' सदिति प्रतीयमान- त्वादित्यनेन उपलब्धेरिति सौत्रहेतुर्व्याख्यातः । एवं दृष्टत्वादित्येतत् नेदं रजतं , किन्तु शुक्तिकैवेति बाधदर्शनादिति परोक्तसाधकनिरास- कत्वेनापि व्याख्येयम् ॥ ( ५ ) ननु सदिति दृश्यमानस्य स्वप्नस्य रज्जुभुजङ्गादेश्चासत्त्वं दृष्टम्। अतो जगतस्सत्त्वेन दृष्टत्वेऽपि तद्वदसत्त्वं किं न स्यादित्याशङ्कां परिहरत्सूत्रमुपन्यस्य व्याचष्टे—वैधर्म्याच्चेति ॥ 'दृष्टस्य' सत्त्वेनोपल-