पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 571, कुल 1267 में से
संदर्भ में पढ़ें५२४ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - २. ] राक्रमः ज्ञानज्ञानः सुखंसुखः स विष्णुः परमोऽक्षरः ' ( पैङ्गिश्रुतिः. ) इत्यादिकया ॥ ४१ ॥ १२. अधिकरणम् ॥ ( १ ) शक्तिपक्षं दूषयति— सू— ॐ ॥ उत्पत्त्यसम्भवात् ॥ ॐ ॥ ४२ ॥ न हि पुरुषाननुगृहीतस्त्रीभ्य उत्पत्तिर्दृश्यते ॥ ४२ ॥ स्यासौ सदेहः । यः 'सुखगन्धः' सुगन्धिः पुण्यगन्धः सुखात्मकग- न्धो वा। तत्रैकः सुधोक्तः। द्वितीयस्तृतीयः न्यायदीपोक्तः। यश्च 'ज्ञान- भाः' न तु तेजसभाः । 'सत्पराक्रमः' अप्रतिहतपराक्रमः । यश्च 'ज्ञा- नज्ञानः' अतिशयितज्ञानः कर्तृसाधनोऽयं ज्ञानशब्दः । 'सुखसुखः' अ- तिशयितसुखः । अर्शाआद्यजन्तः । सुखशब्दः निर्धारणषष्ठ्या चोभय- श्रोक्तार्थलाभः । स विष्णुः 'परमोऽक्षरः' परा जडप्रकृतिः । ततः प- रा चित्प्रकृतिः । ततः परमः तत उत्तमोऽक्षर इत्यर्थः । तत्त्वप्रदीपे तु- 'ज्ञानज्ञानः' नाज्ञानमिश्रज्ञानः 'सुखसुखो' न दुःखमिश्रितसुख इत्य- र्थ उक्तः ॥ ११ ॥ ॥ इति पत्युग्धिकरणम् ॥ १२. अधिकरणम् ( १ ) अधिकरणार्थं दर्शयति—शक्तीति ॥ असामञ्जस्यादिति पू- र्वोक्तन्यायेन निरस्तमपि शक्तिपक्षं शक्तेः स्त्रिया एव जगदुत्पत्तिरि- ति वदतां महावामनमध्यवामनाणुवामनभेदेन त्रिविधानां शाक्तानां मतमसाधारणदोषाविष्कारेण पुनर्द्षयत्यस्मिन्नधिकरणे सूत्रकृदित्य- र्थः । शक्तिरेव खलु सार्वज्ञ्यादिगुणशालिनी सकलजगज्जननी श्रुति- स्मृतीतिहासपुराणेषु पठ्यते । ततो न हरेर्जगत्कारणत्वं लक्षणं युक्त- मितिप्राप्ते सिद्धान्तयत्सूत्रमुपन्यस्य व्याचष्टे—उत्पत्तीति । न हीत्या- दिना सूत्रे अनुषङ्गहेत्वध्याहाराभ्यां न शक्तेः केवलाया अगत्कर्तृत्वं युक्तं । केवलायास्तस्या जगत्कर्तृत्वासम्भवात् । कुतः ? पुरुषाननु- गृहीतत्वादिति सूत्रार्थो दर्शितः । अत्राप्रयोजकतामाशङ्क्य विपक्षे क्वचिदप्यनुपलम्भबाधोक्त्या साऽपि परिहृता ॥