पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 575, कुल 1267 में से
संदर्भ में पढ़ें५२८ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - ३. ] ( २ ) सू—ॐ ॥ न वियदश्रुतेः ॥ ॐ ॥ १ ॥ न वियदनुत्पत्तिमत्, तथाऽश्रुतेः ॥ १ ॥ ( ३ ) सू—ॐ ॥ अस्ति तु ॥ ॐ ॥ २ ॥ अस्त्येव चोत्पत्तिश्रुतिः, 'आत्मन आकाशस्सम्भूतः' ( तै. २-१० ) इत्यादि ॥ २ ॥ ( ४ ) सू—ॐ ॥ गौण्यसम्भवात् ॥ ॐ ॥ ३ ॥ ( २ ) न वियदित्यंशविवरणेनैव विषयपूर्वपक्षादिः सूचितो भव- तीत्याशयेन तमप्रदर्श्य सिद्धान्तयतसूत्रमेवोपन्यस्यति—नेति ॥ अत्र 'उत्पत्त्यसम्भवात्' इति सूत्रप्रकृतानुत्पत्तिबोधकानुत्पत्तिमदितिपदम- नुवर्त्य न वियदिति प्रतिज्ञाभागं व्याचष्टे—नेति । अत्र वियत्पदेन भू- ताव्याकृताकाशौ तदभिमानिदैवतं चोच्यते । सुधाटीकोक्तरीत्या प्रकृ- तिजीवकालमहदहङ्कारादेः उपलक्षकमेतत् । तत्त्वप्रदीपे तु वियदिति विशेषव्याप्तिमत्त्वादहङ्कारादिकमप्युच्यत इत्युक्तम् । तन्नोच्यत इत्य- स्य प्रतिपाद्यत इत्यर्थाश्रयणान्न विरोधः । कुतो नेत्यतस्तथाशब्दाध्या- हारेण अश्रुतेरिति हेत्वंशं व्याचष्टे—तथेति । ' तथा ' तत्रानुत्पत्तौ श्रु- त्यभावादित्यर्थः ॥ ( ३ ) ननु न वियत् उत्पत्त्यभावे प्रमाणं नियमेन वक्तव्यम्, उत्प- त्तौ प्रमाणाभावेनैव तत्सिद्धेः । न हि घटे प्रमाणाभावे पुनः प्रमाणापे- क्षा स्यादित्याशङ्कां परिहरत्सूत्रमुपन्यस्य व्याचष्टे—अस्तीति ॥ एवे- ति तुशब्दार्थ उक्तः । चेति तुशब्दस्य न केवलं तथाऽश्रुतेः, किन्तु य- त उत्पत्तौ श्रुतिरस्त्येव चेति समुच्चयरूपार्थान्तरं यत इत्यर्थत्वं चाह। यथोक्तं तत्त्वप्रदीपे—न केवलमनुत्पत्तिर्न श्रूयते, किन्तु ' अस्ति तु ' अस्त्येव चोत्पत्तिवादिनी श्रुतिरिति । इत्यादिश्रुतिरित्यान्वयः । आदि- शब्देन ' एतस्माज्जायते .... खं वायुः ' ( मु. २-१-३. ) ' नाभ्या आसी- दन्तरिक्षम् ' ( तै. आ. ३-१३. ) ' सन्देहो बहुलः ' ( छा. ५-१८-२. ) इत्यादिकं गृह्यते ॥ ( ४ ) ननु न वियतोऽनया श्रुत्योत्पत्तिः साधयितुं शक्या । ' अना- दिर्वा ' इत्यादिस्वाभिधायकश्रुतिविरोधादित्याशङ्कां परिहरत्सूत्रमुप- न्यस्य व्याचष्टे—गौणीति ॥ इत्यादीति । एवमादिरूपे वाक्ये अनादि- त्वश्रुतिः तद्बोधकशब्दो 'गौणी' भूते छत्रिवल्लाक्षणिकी । आकाशश- ब्दार्थैकदेशानादित्वपरा । एकदेशानित्यत्वगुणयोग इति तत्त्वप्रदीपो