भारतकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 580, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 580

[ अधि - १० - सू - ६ . ] दीपिकासहितम्. ५३३ ( ८ ) यथा ब्रह्मशब्दः । ' अथ कस्मादुच्यते परं ब्रह्मेति . . बृहति बृंहयति च ' (अथर्वशिरः ) इति श्रुतेः । परे ब्रह्मणि मुख्योऽपि गौणत्वेन विरिञ्चादिष्वपि वर्तते । अत एवाब्रह्मत्वं च तेषाम् । एवमन्यत्राप्यनुत्पत्तिम च्छब्दः ॥ ५ ॥ ( ९ ) सू—ॐ ॥ प्रतिज्ञाहानिरव्यतिरेकाच्छब्देभ्यः ॥ ॐ ॥ ६ ॥ वकारो भिन्नक्रमः , चकारार्थोऽयम् । इदं चैकस्यैवाकाशस्य उत्पत्ति मत्त्वमनुत्पत्तिमत्त्वं च गौणमुख्यत्वापेक्षया स्यात् । भावरूपत्वात्क्रम व्यत्यासः । उत्पत्तिमत्त्वं मुख्यं अनुत्पत्तिमत्त्वं गौणमित्युभयमविरुद्धं स्यात् । कुतः ? यत एकस्यैवानुत्पत्तिमच्छब्दस्य ब्रह्मणि मुख्यत्वेऽ प्याकाशे गौणत्वमिति गौणमुख्यत्वापेक्षया प्रवृत्तिः स्यात् अत इत्या वृत्त्या योज्यम् ॥ ( ८ ) अत्र सूत्रकृदुक्तं दृष्टान्तं विवृणोति—यथेति ॥ आद्योऽपिर्य द्यपितथापीत्यर्थे । द्वितीयस्समुच्चये । ब्रह्मशब्दः परे ब्रह्मणि कुतो मुख्य इत्यत उक्तम्—अथेति । इति श्रुतेर्मुख्यत्वेनावगतोऽपीत्यन्वयः । 'गौणत्वेन' अमुख्यत्वेन परममुख्यान्यवृत्त्येति यावत् । ब्रह्मशब्दो वि रिञ्चादिष्वमुख्यतः कुतोऽस्तीत्यत उक्तम्—अत एवेति । ब्रह्मशब्दस्य तत्रामुख्यत्वादेव 'तेषां' विरिञ्चादीनां 'अब्रह्मत्वं' अपूर्णत्वं मुख्यम स्तीत्यर्थः । न केवलं गौणं ब्रह्मत्वमिति चकारार्थः । हिशब्दार्थो वा चशब्दः । एवकारो मुख्यत्वस्य व्यापकतासूचकः । अनेन विरिञ्चादी नाममुख्यब्रह्मशब्दार्थत्वे पूर्णत्वादिति व्यतिरेकी हेतुः सूचितः । अथे ति प्रश्नार्थः । परं वस्तु ब्रह्मेति कस्मान्निमित्तादुच्यत इति । बृहति बृं हयतीत्युत्तरम् । स्वयं वर्धते पूर्णं भवति, यथायोग्यं वर्धयति, पूरय ति चान्यान् तस्मात् प्रवृत्तिनिमित्तसद्भावाद्ब्रह्मेत्युच्यत इति श्रुत्यर्थः । आथर्वणीयं श्रुतिः । ब्रह्मशब्दवदित्यनेन लब्धं दार्ष्टान्तिकमाह—एव मिति । 'अन्यत्र' विष्णोः आकाशे । अपिः समुच्चये । 'अनुत्पत्तिम च्छब्दः' तत्प्रतिपादको न जायतेऽनादिरित्यादिरूपः गौणत्वेन वर्तत इति शेषः ॥ ( ९ ) ननु युक्तं ब्रह्मशब्दस्य परब्रह्मणि मुख्यत्वमन्यत्रामुख्यत्वम्, गुणपूर्णत्वरूपशब्दप्रवृत्तिनिमित्तसद्भावासद्भावस्य कारणसद्भावात् । न