भारतकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 582, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 582

[अधि - १. सू - ७. ] दीपिकासहितम्. ५३५

२-१०.) 'इदं वा अग्रे नैव किञ्चनासीत्' (तै. ब्रा. २-२- ९.) इत्यादिश्रुतिभ्यः ॥ ६ ॥ ( ११ ) सू— ॐ ॥ यावद्विकारं तु विभागो लोकवत् ॥ ॐ ॥ ७ ॥ कं सर्वं जगदपेक्ष्य ततगुणत्वात् 'आत्मा' विष्णुरेव 'अग्रः' अ ग्रथो गुणतोऽधिक आसीदिति व्याख्यातम् । तथाऽपीदं बृहद्भाष्यदि शा टीकोक्तं व्याख्यानान्तरमित्यदोषः । 'सदेवेत्याद्यद्वितीयम्' इतन्तं छान्दोगवाक्यम् । सोम्येति श्वेतकेतुसम्बोधनं 'इदमस्य' जगतो अ ग्रे 'सत्' ब्रह्मैव स्वातन्त्र्येणासीत् । तद्ब्रह्म च 'एकं' स्वसजातीय मत्स्यादिभिर्भेदशून्यम् । 'एव' स्वगतगुणक्रियावयवादिभिरभिन्नं न तु तैर्भिन्नम् । यद्वा-अवयवादिनाऽप्यभिन्नमेव न तु घटादिवत्स्वावयवै र्भिन्नाभिन्नमित्येवशब्दार्थः । 'अद्वितीयं' समशून्यं अधिकशून्यत्वमां र्थिकार्थः । 'इदं वा अग्रे' इत्यध्वर्यूणां श्रुतिः । इयं च— सर्वसंहारकं विष्णुं देवीं जीवांस्तथैव च । कालं त्रिगुणसाम्यं च कर्माणि प्राणमिन्द्रियम् ॥ संस्कारं चैव वेदांश्च नर्ते किञ्चिल्लय्ये त्वभूत् ॥ इति बृहद्भाष्योदाहृतब्रह्मतर्कवचनानुसारेण 'इदं' अस्य 'अग्रे' प्र लये 'किञ्चन' विष्णुरमादिभ्योऽन्यो नैवासीदिति व्याख्येया । इत्या दिश्रुतिभ्य इत्यस्यानुत्पत्तिमच्छब्दो ऽन्यत्रामुख्यो ब्रह्मणि तु मुख्य इ त्यवसीयत इति पूर्वेणान्वयः । तथा चाकाशब्रह्मणोः 'आत्मा' इत्या दिश्रुतिभिः स्पष्टमेव सादित्वानादित्वप्रतीतेस्ता एव तयोरनुत्पत्तिम च्छब्दमुख्यत्वामुख्यत्वयोः कारणमिति तदनुपलम्भोऽसिद्ध इति भा वः । बहुवचनाद्बहुश्रुतिविरोधे च एकस्यानुत्पत्तिमच्छब्दस्यामुख्यार्थं त्वं न्याय्यमिति न्यायं सूचयति—यद्यप्युदाहृतवाक्येष्वपि ब्रह्मणोऽ नादित्वस्य तदन्यस्य च कतिपयस्यानादित्वाभावस्य च प्रतीतावपि न स्पष्टमाकाशस्योत्पत्तिः प्रतीयते । तथाऽप्यादिशब्दगृहीतेषु तदुक्त रपूर्वभाविषु 'स इमान् लोकानसृजत' (ऐ. १ - १०) इत्यादिषु सा प्रतीयत इति नानुपपत्तिरिति ध्येयम् । न च गौण्यसम्भवादित्यनेनेदं पुनरुक्तं, श्रुतिनिरूपितबाहुल्यासम्भवस्यापि असम्भवपदेनोक्तत्वाद्वि ति वाच्यम् । शब्देभ्य इत्यस्य पूर्वोक्तासम्भवसम्बन्धिबहुत्वाश्रयविव रणरूपत्वेनापुनरुक्तेः । अत एव 'अस्ति तु' इत्यनेनापि न पुनरुक्तिः ॥ ( ११ ) अनुमानेनापि ब्रह्मण एवानादित्वं, अन्येषां सादित्वमनुत्प