पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 587, कुल 1267 में से
संदर्भ में पढ़ें५४० ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - ३. ] ( ३ ) ‘कुविदङ्ग नमसा ये वृधासः पुरा देवा अनवद्यास आसन् । ते वायवे मनवे बाधितायावासयन्नुषसं सूर्येण’ ॥ (ऋ. ७-९१-१.) ( ४ ) सा वा एषा देवतानादियोऽयं पवत इति ॥ ( ५ ) ‘यस्य नादिर्न मध्यं नान्तो नोदयो न निम्लोचः’ ( ) इत्यादिश्रुतिभ्यो वायोरनुत्पत्तिरिति ॥ ( ६ ) अतो ब्रवीति— ( ३ ) वायोरनुत्पत्तौ युक्त्यन्तरोपन्यासाय श्रुत्यन्तरमुदाहरति— कुविदङ्गेति ॥ व्याख्यातोऽयं मन्त्रः शब्दाधिकरणे । अनेन वायोरुत्प- त्तिमत्त्वे दोषित्वेन सर्वदेवतोपास्यत्वानुपपत्तिरिति पूर्वपक्षे विशेषयु- क्त्यन्तर मुपन्यस्तं भवति ॥ ( ४ ) वायोरुत्पत्त्यभावे युक्त्यन्तरोपन्यासाय श्रुत्यन्तरमुदाहर- ति—सेति ॥ ‘पवते’ शोधयति । कल्मषमिति शेषः । सञ्चरतीति वा शुद्धोऽस्तीति वा । इतिशब्दः श्रुत्यन्तर्गतः । ‘योऽयं पवते’ इति बृहदा- रण्यके ‘अयं वै ब्रह्मा योऽयं पवते’ इति बह्वृचब्राह्मणे च । या पवत इ- ति पवनकर्तृत्वेनोक्ता साऽनादिरित्यर्थः ॥ ( ५ ) अनादित्व एव वाक्यान्तरमाह—यस्येति ॥ ‘आदिः’ उ- त्पत्तिः । ‘मध्यं’ मध्यमवयः । ‘अन्तो’ नाशश्च नास्ति यस्याः सा वा- युदेवतेति सम्बन्धः । वायोरुदयनिम्लोचयोरेवाभावात्कुतो जन्म स- म्भवतीत्याह—यतो नोदयो न निम्लोच इति । प्रादुर्भावतिरोभावौ न स्त इत्यर्थः । युक्तीनामपि श्रुतिगृहीतत्वाच्छ्रुतिभ्य इत्येवोक्तम् । हेतु- मुक्त्वा साध्यमाह—वायोरनुत्पत्तिरिति । सावधारणमेतत्सिध्यतीति शेषः। अतः उत्पत्तिश्रुतिरप्रमाणमिति न जगत्कारणे ब्रह्मणि श्रुतिसम- न्वयोयुक्त इति वाक्यशेषः ॥ ( ६ ) एवमधिकाशङ्कया पूर्वपक्षितेऽतिदेशेन सिद्धान्तयत्सूत्रमव- तार्य व्याचष्टे—अत इति ॥ एतेनेत्यनूद्य मुख्यामुख्यानुत्पत्तिवचनेन विभक्तत्वाच्चेति च व्याख्यातम् । अत्र ‘भाष्यं चात्यर्थविस्तरम्’ इ- त्युक्तेः मुख्यस्य वायोरमुख्यानुत्पत्तिवचनेन मुख्यानुत्पत्तिवचनाभा- वेनेत्येकोऽर्थः । अनेनाश्रुतेरिति प्रथमसूत्रोक्तो हेतुरुक्तो भवति । एवं