पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 589, कुल 1267 में से
संदर्भ में पढ़ेंHere is the line-by-line transcription of the text in pure Unicode Devanagari:
५४२ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - ३. ] अनित्यानि तु भूतानि नित्यो वायुरुदाहृतः । परस्तु नित्यः पुरुषः प्रकृतिः काल एव च ॥ (८) एतच्चतुष्टयं विष्णुः स्वयं नित्यः परात्परः । प्रतिव्यूह्य व्यूह्य चासावतीत्य च जनार्दनः ॥ तानि क्रमेण दर्शयति—परेति । तुशब्दाः पूर्वपूर्वस्मादुत्तरोत्तरस्य वि- शेषद्योतकाः । 'पार्थिवं' पृथिव्युपलक्षितभूतकार्यं संसृष्टमण्डादि । 'अनित्यानि तु भूतानि' असंसृष्टान्तर्गतानि आकाशादीनि तदभिमा- निवियानकादीनि च । भूतानामुपचयमात्रनाशात् तदभिमानिनः अ- भिमानमात्रनाशात् पूर्वेभ्यो विशेषः । न च प्रागाकाशस्य 'प्राणः श्र- द्धाऽऽकाशः' इति नित्यानित्यत्वोक्तिविरोध इति वाच्यम् । पार्थिववत्प