भारतकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 62, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 62

[ अधि - १. सू - १. ] दीपिका सहितम्. १५ ( १९ ) सू— ॐ ॥ ॐ अथातो ब्रह्मजिज्ञासा ॥ ॐ ॥ १ ॥ प्रापुर्देवाश्च ऋषयस्तथा' इति भारततात्पर्यनिर्णयविरोधः, अत्र पुन शब्दात्सर्वदेवादीनां अज्ञातविस्मृतार्थज्ञानप्राप्तेरुक्तत्वादिति वाच्य म्, तस्याप्युक्तार्थत्वात् । विरिञ्चेतेरेषां तिरोहितार्थज्ञानलाभो वा ऽत्रोच्यते, यत आहुर्गीतातात्पर्ये आचार्याः- "ब्रह्मणस्तु प्रायो नाप्रति भासितं" इति । 'इत्यादि' इत्यस्य 'तच्चोक्तं' इत्यनेनान्वयः । लुप्त विभक्तिकोऽयं निर्देशः ॥ (१९.) प्रमाणाभावेन जीवचैतन्यातिरिक्तब्रह्मणोऽभावात्, जीवस्य च स्वप्रकाशत्वेनासन्दिग्धत्वात्, तथाच विषयाभावात् प्रत्यग्रूपे ब्रह्मण्यहमिति प्रतीयमानेऽपि मोक्षानुपलम्भेन प्रयोजनाभावात् तत एव तत्प्रतिबद्धाधिकार्यभावाच्च न ब्रह्मजिज्ञासा कर्तव्येति प्राप्ते सिद्धा न्तितं भगवता सूत्रकारेण 'ॐ अथातो ब्रह्मजिज्ञासा ॐ' इति । इदमेकं सूत्रमेकमधिकरणम् । अधिकरणं नाम विषयसंशयपूर्वप क्षसिद्धान्तप्रयोजनरूपपञ्चाङ्गसमुदायः । यथाऽत्रैव जिज्ञासाधिकर णे "तद्विजिज्ञासस्व" इति जिज्ञासाभिधायकवाक्यविहिता श्रवणा दिरूपा जिज्ञासा विषयः । कर्तव्या न वेति सन्देहः । न कर्तव्येति पू र्वः पक्षः । अस्मिन् पक्षे च शास्त्रस्यानारम्भणीयत्वनिश्चयः फलम् । कर्तव्येति सिद्धान्तः । तत्र चारम्भणीयत्वनिर्णयः फलं, न्यायानुसन्धा नात्मकमीमांसारूपजिज्ञासायाः अकर्तव्यत्वे न्यायग्रथनात्मकमीमां साशास्त्रस्यानारम्भणीयत्वावश्यंभावात् । एवमन्यत्रापि । एकस्याधिकरणस्य सङ्गतिपञ्चकम् । तच्च—शास्त्रसङ्गतिः, अ ध्यायसङ्गतिः, पादसङ्गतिः, पूर्वाधिकरणसङ्गतिः, तद्विषयवाक्यसङ्ग तिश्चेत्येवंरूपम् । सङ्गतिरपि सामान्यतो द्विविधा, अन्तर्भावरूपा आ नन्तर्यलक्षणा चेति । तत्र शास्त्राध्यायपादैरन्तर्भावरूपा सङ्गतिः । पू र्वाधिकरणतद्विषयवाक्याभ्यां तु आनन्तर्यरूपा । साऽपि आक्षेपिकी आतिदेशिकी औपोद्धातिकी आपवादिकी प्रासङ्गिकी इत्यादिरूपेण ब हुविधा । तत्र पञ्चाधिकरणपर्यन्तं शास्त्रसङ्गतिमात्रं, नाध्यायपाद सङ्गतिः । समन्वयैकत्योरध्यायेन सङ्गतिसत्त्वेऽपि पादेनाभावात्सङ्ग त्योरभावः पञ्चाधिकरणीसाधारणः । तथा पूर्वाधिकरणतद्विषयसङ्ग ती अपि नैतदधिकरणस्य भवतः, अस्यैवाद्याधिकरणत्वात् श्रुतिकि