पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 621, कुल 1267 में से
संदर्भ में पढ़ें५७४ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - ३. ] भुः कारणो लोकसाक्षी परो गुणैस्सर्वदृक् शाश्वतश्च' ( ) इत्यादिश्रुतिभ्यो नित्यत्वाच्च ॥ १७ ॥ -- ११. अधिकरणम् ॥ (१) 'नित्यो नित्यानाम्' (कठ. ५-१३.) इति जीवस्यापि नित्यत्वमुक्तम् । 'सर्व एते चिदात्मानो व्युच्चरन्ति' इत्युत्पत्तिरुच्यते। त 'नित्यो' देहतोऽपि नित्यः परमनित्य इति यावत् । नित्यानां नित्य- त्वप्रद इति वा । एवं 'चेतनानां' ज्ञातॄणामपि 'चेतनः' परमचेत- नः, तेषां चैतन्यप्रद इति वा । यश्च स्वयमेक एव 'बहूनां' पुरुषाणां 'कामान्' काम्यान् 'विदधाति' करोति तं हृदयस्थं ये धीराः अनु- पश्यन्ति तेषां 'शाश्वती' पुनरावृत्तिशून्या 'शान्तिः' मोक्षो भवेन्नेत- रेषामिति । 'स नित्यः' इत्यन्यश्रुतिवाक्यम् । स परमात्मा देहतोऽपि नित्यः, यतो 'निर्गुणः' सत्त्वादिगुणाबद्धो विभुः परो विलक्षणोऽत इ- त्यर्थः । 'नित्यो विभुः' इत्यन्या श्रुतिः । नित्यत्वे हेतुर्विभुरित्यादिकं । 'कारणः' कारणं जगत इति शेषः । 'गुणैः' गुणेभ्यस्सत्त्वादिभ्यः 'परो' मुक्तः गुणमयदेहादिवर्जितः 'सर्वदृक्' सर्वज्ञः 'शाश्वतो' निर्विकार इत्यर्थः । आदिशब्देन नित्यत्वबोधकवाक्यान्तरं गृह्यते । ता- भ्य इत्यस्य व्याख्या श्रुतिभ्य इति । नित्यत्वादिति। देहतोऽपि नित्यत्वा- वगमादित्यर्थः । ब्रह्मण इत्यनुषज्यते । अस्यापि निर्लीनशब्देनापिहित- त्वमुच्यत इति पूर्वेणान्वयः । चशब्दो हेतुसमुच्चये । तथा च बाहुल्ये- न 'नित्यः' इत्यादिश्रुतीनां प्राबल्यान्नेतरश्रुतिविरोधेन अप्रामाण्यं शङ्क्य- मिति तच्छ्रुतिविरोधान्निर्लीनश्रुतेरर्थान्तरकल्पनं युक्तमिति भावः॥१०॥ ॥ इति आत्माधिकरणम् ॥ -:--:- ११. अधिकरणम् ॥ ( १ ) अत्राधिकरणे जीवजन्मविषयश्रुतिविरोधः परिह्रियते । स- न्देहबीजं श्रुतिविरोधं दर्शयति—नित्य इति ॥ न केवलं परस्येत्यपि शब्दार्थः । नित्यत्वमिति । अविनाशित्वमित्यर्थः । उक्तमिति । पूर्वाधि- करणोदाहृतवाक्येनेति शेषः । न चोत्पत्तिश्रुतिप्रतियोग्यनादित्वश्रुतेरे- वोदाहर्तव्यतया नित्यत्वश्रुत्युदाहरणमसङ्गतमेवेति वाच्यम् । भावस्य