पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 635, कुल 1267 में से
संदर्भ में पढ़ेंHere is the line-by-line transcription of the text in Unicode Devanagari:
व्याप्त्यव्याप्तियुतास्त्वन्ये चिद्गुणेनैव नान्यथा । ( १८ ) चिद्गुणस्य स्वरूपत्वात्तद्व्याप्तिश्चेति युज्यते । रूपेण सम्यगवस्थानमित्यवस्थाभेदमपेक्ष्यैव व्याप्त्यव्याप्तियुताः, एवं देवांगा अर्जुनादयोऽपि प्रत्येकं हृदयादितरत्रासम्यक् कस्मिंश्च स- म्यगवस्थानेन व्याप्त्यव्याप्तियुताः । एवमंश्यापेक्षया ऽप्यव्याप्तियु- ताः असम्यगवस्थिताश्चांशिनस्त्वंशापेक्षया सम्यगवस्थिताः व्याप्ति- युताश्च, न त्वन्यथा । देवादिभ्योऽन्ये नरास्तु प्रकाशगुणेनैव व्याप्तियु- ताः, न देववत्सान्द्रव्याप्तिभाजः । अतो जीवानाम्णुत्वेऽपि न तत्र त- त्र परिज्ञानायोगाख्यविरोधावकाश इत्यर्थः ॥ ( १८ ) नन्वस्तु गुणस्य व्याप्तिः, गुणिनः कुत इत्यत आह—चिद्गुण [L1