भारतकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 637, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 637

इति पाराशर्यायणश्रुतौ बहुरूपत्वं प्रतीयते । ( २ ) अतो विरोधं परिहरति— सू—ॐ ॥ व्यतिरेको गन्धवत्तथा च दर्शयति ॥ ॐ ॥ २७ ॥ यथापुष्पाद्गन्धः पृथग्गच्छत्येवमंशिनो जीवादंशाः पृ- थग्गच्छन्ति । क्यस्य चोदाहरणं कृतम् । एकस्य जीवस्येति शेषः । 'अबहुत्वं' अ- बहुरूपत्वं एकरूपत्वमिति यावत् । स जीवः 'पञ्चधा' पञ्चरूपः । ए- वमुत्तरत्रापि । 'गच्छति' परं लोकं प्रति । अत्रापि जीवत्वज्ञापनाय 'स मुच्यते' इति शेषोदाहरणम् । अत्र श्रुतिद्वयेऽपि प्रतिपाद्यो योगिजी- वः । स एवेह विचारविषय इति ध्येयम् ॥ ( २ ) सयुक्तिकाबहुरूपत्वश्रुतिविरोधेन बहुरूपत्वश्रुतेः अप्रामाण्या त्तसाम्याज्जगत्कारणत्वश्रुतेः अप्रामाण्यात् न हरौ श्रुतिसमन्वयो यु- क्त इति प्राप्ते सिद्धान्तयत्सूत्रमवतारयति—अत इति ॥ यतो विरोधः द्वैधाश्रुतिमूलकः संशयबीजमस्ति, अतः संशयनिवृत्तयै तं विरोधं परि- हरति सूत्रकृदित्यर्थः । सूत्रं व्याचष्टे—यथेति ॥ यथा 'गन्धः' गुणः वायुनाऽऽकृष्टः 'पुष्पात्' पुष्पं विहाय 'पृथक्' पार्थक्येन प्रदेशान्त- रस्थितं घ्राणदेशं गच्छति तथा ये योगिजीवांशाः अंशिनो जीवात् पृ- थग्विभक्ताः सन्तस्तत्र तत्र स्वकार्याय गच्छन्तीत्यर्थः । यद्वा—गन्ध- शब्दो गन्धवद्द्रव्यावयवपरः । अतएव प्रमेयदीपे 'वायुर्गन्धानिव' इत्यत्र गन्धवतोऽवयवानिति व्याख्यातम् । पृथगित्यनेन व्यतिरेकशब्द- स्य पृथग्भावार्थत्वमभिप्रेति । अंशिनोऽंशा इत्यनेन सूत्रे ज्ञस्येति वि- परिणतपदस्यानुवृत्तिरंशैरित्यध्याहारश्च सूचितः । अत एव टीकायां म्—प्राथम्यसाम्येन गुणत्वोक्तिरित्युक्तम् । एतेन 'यथा गन्धस्य भू- मेश्च न भावो व्यतिरेकतः' इति तृतीयस्कन्धविरोधोऽपि निरस्तः । न चैवं दीपं विहाय वृत्तेर्द्रव्यत्वसाधकताविवादादिति पूर्वाधिकरण- टीकोक्त्या गन्धादिगुणानामपि गुणिनं विहाय गमनावगमनात् तथा, द्रव्यत्वसाधकगमनदूषकचन्द्रिकया च विरोध इति वाच्यम् । गम- नोक्तेः सूक्ष्मावयवविषयत्वात्, दूषणोक्तेश्च स्थूलावयवविषयत्वात्, पक्षद्वयस्याप्यविरुद्धत्वात् । अत्र भाष्यटीकयोः आलोकगन्धयोर्गुण- त्वोक्तिर्मुख्या । द्रव्यत्वोक्तिस्त्वमुख्येति द्रष्टव्यम् ॥

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक) · पृष्ठ 637, कुल 1267 में से · BharatKosha