पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 641, कुल 1267 में से
संदर्भ में पढ़ें५९४ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - ३. ] तोऽभेदव्यपदेशः । यथा सर्वगुणात्मकत्वात्सर्वात्मक त्वं ब्रह्मण उच्यते 'सर्वं खल्विदं ब्रह्म' ( छा. ३-१४- १०) इति । (४) भविष्यत्पुराणे च— वाच्यम् । अस्य शास्त्रस्य विशिष्टाधिकारित्वेन तं प्रत्येव 'तत्त्वम सि'इत्याद्युपदेशप्रवृत्तेः अस्य सज्जीवस्येत्यर्थाभ्युपगमात् । सारपदमनू द्य व्याचष्टे—सारः स्वरूपमिति । न च ज्ञानानन्दादिरूपब्रह्मगुणानां कथं जीवस्वरूपत्वमिति वाच्यम् । ब्रह्मगुणा इत्यस्य तद्गुणसदृशगु णा इत्यर्थाभ्युपगमात् । एवं सूत्रेऽपि गुणशब्दस्तद्गुणसदृशगुणपरः । अत इति सावधारणम् । अनेन सौत्र तुशब्दो व्याख्यातः । तद्व्यपदेशः इत्यस्य पर्यवसितार्थोऽभेदव्यपदेश इति । 'तत्त्वमसि' इत्यादिपरब्र ह्मैक्योक्तिरित्यर्थः। ज्ञानानन्दादीत्यादिवाक्यं च। यतो जीवस्य ब्रह्मगुण सदृशगुणस्वरूपत्वं, अतस्तद्विवक्षयैव गौण्या वृत्त्या जीवे ब्रह्माभेदो क्तिः अभेदप्रापकतदादिपदप्रयोगो, न त्वभेदाभिप्रायेण । यत एवमभेदव्यपदेशोऽन्यथोपपन्नः, अतो न तस्याप्रामाण्यमिति साध्या ध्याहारेणावृत्त्या योज्यम् । एवं यतस्तद्व्यपदेशो जीवस्य तद्गुणसार त्वमपेक्ष्योपपन्नोऽतो नाभेदश्रुतेरप्रामाण्यमिति प्रतिज्ञाध्याहारेण सूत्र योजना द्रष्टव्या । सर्वगुणात्मकत्वादिति । समस्तजद्गुणसदृशगुण स्वरूपत्वमपेक्ष्य यथा 'सर्वं खल्विदं ब्रह्म' इति छन्दोगश्रुतौ प्रकृ ष्टज्ञातृत्वनिमित्तात् प्राज्ञशब्दोक्तस्य ब्रह्मणः 'सर्वात्मकत्वं' जड जगदभेदः 'उच्यते' व्यपदिश्यते तथैवेत्यर्थः । यथेत्यादिना प्रज्ञ एव प्राज्ञः तद्वत् तस्य सर्वाभेदोक्तिवदिति दृष्टान्तांशो व्याख्यातः । यद्यपि छान्दोग्यभाष्ये 'इदं ब्रह्मातिसामीप्यात् सर्वं पूर्णगुणत्वतः' इति व चनानुसारेणेदंसर्वपदयोः परमात्मनि मुख्यवृत्तिरभिहिता, न तु गौ णी वृत्तिः । तथाऽपि पदसमन्वयाभिप्रायेण तस्य प्रवृत्तत्वात् , वा क्यान्वयाभिप्रायेणात्र गौणिवृत्त्यभिधानात् न विरोधः ॥ (४) अत्रैव स्मृतिसम्मतिमाह—भविष्यदिति ॥ न केवलं सूत्र कृता सूत्र एवैतदुक्तम्, किन्तु स्पष्टोक्तिरूपे भविष्यत्पुराणे चोक्तमि त्यर्थः । किमुक्तमित्यतस्तत्पठति—भिन्ना इति । यद्यपि जीवाः परमा त्मनो भिन्नाः, परमात्माऽपि जीवेभ्यो भिन्नः । तथाऽपि सर्वेषु 'वेदवा