भारतकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 659, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 659

६१२ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - ३. ] ( १६ ) एतदेवं न चाप्येवमेतदस्ति न चास्ति च ॥ इति मो क्षधर्मे ॥ ४२ ॥ —::— १८. अधिकरणम् ॥ ( १ ) अंशा एव हीमे जीवाः अंशी हि परमेश्वरः । स्वयमंशैरिदं सर्वं कारयत्यचलो हरिः ॥ इति गौपवनश्रुतौ अंशत्वं जीवस्योपलभ्यते । म्यादिदोष इत्यर्थः । तर्हि कार्यकारणरूपाणां पूर्वपूर्वकर्मणामनन्तत्वा त्कथं तत्कारयितृत्वमीश्वरस्योपपद्यते इत्यत आह— पूर्णेति । तथाच हरेरमितशक्तित्वादनन्तकर्मकारयितृत्वं तस्य सम्भवत्येवेति न दोष इति भावः । भविष्यत्पर्वणि 'कृत' इति सूत्रार्थ उक्त इति शेषः ॥ ( १६ ) अधिकरणार्थे स्मृतिं चाह— एतदिति ॥ यतः 'एतत्' जी वस्य कर्तृत्वं 'एवं' प्रामाणिकं ईश्वरवत्स्वातन्त्र्येण चैतदेवं न, अत एतत्कर्तृत्वमस्वातन्त्र्येणास्ति स्वातन्त्र्यविवक्षया नास्तीति 'नान्यः कर्ता' इति श्रुतावुच्यते अत इत्यर्थः । इतीति । एवंरूपमोक्षधर्मवचने अधिकरणार्थ उक्त इत्यर्थः ॥ १७ ॥ इति कर्तृत्वाधिकरणम् ॥ —— १८. अधिकरणम् ॥ ( १ ) अत्राधिकरणे जीवविषये श्रुतिविरोधः परिह्रियते । तत्र जी वस्येश्वरांशत्वमनंशत्वं वेत्यनिर्णयपूर्वकपक्षमभिप्रेत्य विरुद्धश्रुतिद्वयरूप मनिर्णयकारणं दर्शयति— अंशा एव हीति ॥ 'इमे' प्रमिता जीवाः अंशा एव पितापुत्रादिसम्बन्धैः केवलं तदुपजीव्यत्वेन तच्छेषभूता एवेत्यर्थः । यद्वा— ततो न्यूनत्वे सति किञ्चित्तत्सदृशत्वरूपांशत्वोपे ता इत्यर्थः । न तु निरुक्तांशत्वरहिता इत्येवशब्दार्थः । एवेत्यनेनांशत्वा नंशत्वयोर्विकल्पोऽपि निरस्तः । हिशब्दौ उभयत्र प्रसिद्धिद्योतकौ । ननु जीवानामध्यंशत्वे कथं तर्हि हरिरंशेन जगत्सृजतीति व्यपदेश इ त्यत आह— स्वयमिति । साक्षादंशैरनिरुद्धाद्यैः 'सर्वं' जगत् 'कार यति' सृजतीत्यर्थः । तथा च स्वरूपांशविषयं तद्वचनम् । जीवास्तु भिन्नांशा इति न तेषां तद्विषयत्वमिति भावः । यद्वा— स्वयं साक्षाद्भि न्नांशैर्विरिञ्चादिजीवैः स्वपदादभ्रष्टत्वान्निर्विकारत्वाद्वाऽचलो हरिः सृ

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक) · पृष्ठ 659, कुल 1267 में से · BharatKosha