पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 66, कुल 1267 में से
संदर्भ में पढ़ें[ अधि - १. सू - १. ] दीपिकासहितम्. १९ (२८) अथशब्दस्त्वतःशब्दो हेत्वर्थे समुदीरितः । (२९) परस्य ब्रह्मणो विष्णोः प्रसादादिति वा भवेत् ॥ षये तन्मात्रवाचकत्वाभिप्रायेणैव सूत्रकारैः 'समुदीरितः' प्रयुक्तो न मङ्गलादिवाचकत्वेनेत्यर्थः । अवश्यकर्तव्यप्रयोजकत्वाच्च प्रथमम- थशब्दप्रयोग इति भावेनाथशब्दो मङ्गलार्थ इति स्वोक्तार्थे प्रमाणं द- र्शयति — 'मङ्गलार्थे' इति । चतुर्थ्यर्थे सप्तमीयं, अव्ययं वा । अर्थ- शब्दः प्रयोजनवाची। तथा च—मङ्गलारूपप्रयोजनार्थ चाथशब्दः सूत्र- कारैस्समुदीरितः प्रयुक्तो भवेदित्यर्थः । विष्णुवाचकाकारघटिताथश- ब्दोच्चारणरूपमङ्गलस्य तत्साध्यत्वादिति भावः । 'आनन्तर्य' इतिवत् 'मङ्गले' इत्यनुक्त्वा 'अर्थ' इति वचनं तद्वैषम्यसूचनार्थम् । स्ववा- क्ये प्रमाणक्रमातिक्रमस्तु मङ्गलस्य प्रथममनुष्ठेयत्वात् कृतः ॥ (२८) एवमथशब्दस्य अवश्यवक्तव्यार्थत्वरूपं प्रथमप्रयोगनिया- मकं प्रदर्श्य अतःशब्दस्यापि तद्दर्शयति---' अतःशब्दस्तु हेत्वर्थे' इति । तुशब्दो विशेषार्थः । हेतुर्लिङ्गं कारणं च स चासावर्थोऽभिधे- यश्च तस्मिन् तद्विषये तद्वाचकतया सूत्रकारैः 'समुदीरितः' इत्य- र्थः । गुर्वर्थदीपिकायान्तु "हेत्वर्थ इति स्ववाक्ये प्रमाणे च 'तद्धेतु- त्वं वदन्' इत्युत्तरवाक्यानुसारात् भावप्रधानो निर्देशः" इत्युक्तम् । तन्निष्फलम् । तथा च व्याख्यास्यामः । हेतावित्यनुक्त्वा अर्थशब्दग्र- हणं शब्दाधिक्यादर्थाधिक्यमिति न्यायेन प्रकृतेर्हेतुरर्थः प्रत्ययस्य तु हेतुत्वमर्थ इति प्रकृतिप्रत्ययोभयार्थकथनार्थम् । यद्वा — अर्थशब्द- स्योभयत्र श्रवणात्स पूर्वत्राप्यनुषञ्जनीय इति ज्ञापनाय, तदर्थमात्रं भिन्नमिति ध्येयम् । (२९) अत्र अतःशब्दस्यावश्यवक्तव्यमर्थान्तरं चाह—'परस्य' इति । वाशब्दः समुच्चये । उक्तं हि प्रमेयदीपे "वाशब्दश्चार्थः" इति। उक्तं हि "यदि वा भेदभिन्नयोः" इति विष्णुत्तत्त्वनिर्णयटीकायां "वाश- ब्दस्समुच्चयार्थः" इति । तथा तत्त्वप्रदीपेऽपि "सुप्तौ मोक्षे वा" इत्यत्र "वाशब्दस्समुच्चयार्थः" इति । अनेन 'अतः' इत्येतत् 'अ' शब्दप्रकृति- कं तसिल्लन्तं पदम्, प्रकृत्यर्थो विष्णुः, 'प्रसादात्' इति तु लब्धा- र्थकथनं, कारणत्वं प्रत्ययार्थ इत्युक्तं भवति । अपरव्यावृत्त्यर्थं 'परस्य' इति । "अ इति ब्रह्म" (ऐ-आ-२-३-८-७) इति श्रुतिं सूचयति परब्रह्म